________________
श्रीयशोध. ॥ ५ ॥
| पौरलोकाः सर्व्वेऽपि हाहारवं कुर्वन्तो मुखेऽङ्गुलीं प्रक्षिपन्तो राजानमुद्दिश्य एवमूचुः - 'हा दुष्ट पापिष्ट निकृष्ट निष्करुण महानास्तिक स्त्री- बाल-वृद्ध- पशुघातक कौलमतभक्त पापासक्त मारिदत्त ! अस्माकमभाग्यैस्त्वं भूपतिर्जातः । हा ! इता वयं, किं कुर्म्मः १, कुत्र यामः' ? । इत्थं बहुविधाऽऽक्रोशवाग्भिः क्रोधात् पौरलोकेषु समन्तात् कथयत्सु सत्सु तै राजपुरुषैस्तच्छिष्ययुगलं राज्ञोऽग्रे मुक्तम् । तदा साधुतपःप्रभावाद् दशापि दिशो नीली- कज्जल-निबिडकर्दमैरत्यर्थं लिप्ता इव अकस्मात् विच्छायरूपाः संजाताः । तथा सर्वेऽपि कौला योगिन्यश्च पुनः पुनः क्षोभं प्रापुः, दुष्टमत्रिणश्च जीवितव्याऽशारहिता बभूवुः । स | मारिदत्तभूपालोऽपि करुणा-कौतुक - जडत्व - लज्जामिश्रितदृष्ट्या मुनियुगलं विलोकयन् मनसि एवं चिन्तयामास - " इदं हि दिव्यरूपधरं युगलं महाश्चर्यकारि अस्माकमदृष्टपूर्वम् अकस्मादिह कुतः समागतम् ? । पुनरेतद् मम सामान्यं न प्रतिभासते, यतोऽनयोः शान्तकान्तिमयमूर्ते रमणीयतरवयसश्च विलोकनात् मम चिरपरिचितमपि निर्दयत्वम् अद्य सद्यः प्रणष्टम्, चेतसि कोमलत्वं च समुत्पन्नम् । पुनरयं सर्वगुणाधारः कुमारः | सुविशाललोचनो दुर्मतिमदमोचनो वृषभस्कन्धः प्रचण्डभुजदण्डः कार्तिकेयवद् ब्रह्मचारी दुश्चरतपोधारी | सूर्य इव खतेजसा अस्मान् सर्वानपि आच्छादयति । अथ यद्येष दुर्वारवीर्यो महामुनिः कथमपि कोपं कुर्यात् तदाऽयं निर्दयकौल- योगिन्यादियुक्तोऽस्माकं देवीपूजनोत्सवः सर्वोऽपि उपद्रवप्रायो भवेत् । तथा | इयं स्वर्णवर्णशरीरा केतकीदलविमलविशालनयना पूर्णचन्द्रवदना तपखिनी मदमदनविरहिता शान्ता
चरित्रम्. भवः १
॥ ५ ॥