________________
कर्तुं न घटते । इदानीं पुनर्यदि मम तपस्तेजोमयः कोपाग्निर्दीप्यते तर्हि तस्य एतद् जगत्रयं प्रथमाऽप्याहुतिर्न भवेत् । परम् अहं पापाद् विभ्यत् क्षमामेव समीचीनां जानामि । यदुक्तम्
"कः क्षमेत सुधीस्तर्हि न्याय्ये कोपस्य कारणे । यदि नैककृतं पापं कोटिधा परिपच्यते " १ ॥ १ ॥
इत्थं तेन भ्रातृसाधुना आश्वास्यमाना सा बाला तपस्विनी साध्वी खकीयं नयनद्वयं प्रमृज्य गद्गदखरेण जगाद - "हे बान्धव ! अहं तव पराक्रमं जानामि, तव दुष्करं तपोऽपि वेद्मि परं दीनायां मयि करुणा तव युज्यते । पुनर्भो बान्धव ! अहं मरणभयाद् न विलपामि, किन्तु अजादिपशुवत् शस्त्रप्रहारेण आवयोमृत्युरागतोऽस्ति अतो विह्वला भवामि । तथा शोक-मोहादयो वैरिणः परित्यक्ता अपि माम् अनाथां पुनः पुनः स्पृशन्ति, किं करोम्यहम् १ । अथवाऽलं विषादेन, येन प्राणिना यादृशं शुभाशुभं कर्मोपार्जितं तस्य तदनुभवतोऽनृणी भवनात् प्रत्युत हर्षो जायते, अतोऽहमधुना शोकं न करिष्ये । हे योगीन्द्र ! हे बान्धव ! एवंविधे प्रस्तावे त्वयाऽहं सम्यग् बोधिता” । अथ राजपुरुषैर्गृह्यमाणयोस्तयोर्भ्रात्रो रेवंविधा गम्भीरकरुणावाचः सर्वैरपि पौरलोकैः शुश्रुविरे । पुनस्तस्मिन् अवसरे तत्र एतादृगुपद्रवः प्रादुर्भूतः । तथाहि - अकस्माद् भूमिश्चकम्पे, रजोभिर्नभस्तलं व्याप्तम्, वायुरपि संभ्रान्त इव निश्चलः संजातः, सूर्यमण्डलं च राहुग्रस्तमियाssकुलं दृश्यते, वृक्षादयोऽपि चकिता इव प्रायो निश्चला अभवन् । अथ तस्मिन् प्रस्तावे तं व्यतिकरं विलोक्य
१ भ्रातृभगिन्योः ।