________________
धर्मोपदेश॥९३॥
I
नगरस्यासीत् कासिमखानाख्यशासकः । 'सैयद मुहम्मद' सुतो यश्वयुद्धे विशारदः || १३७|| कालेऽस्मिन्नेवोभौ साधू तेजसामलसागरौ । केनापि हेतुनाऽभूतां समुदयाद् निराकृतौ ॥ १३८ ॥ रुग्णं कासिमखानं चामिलतां कुपितौ यती । तयोचिकित्सया रोगः नष्ठोऽभूत् शासकस्य च ।। १३९ । निरामयः स खानश्च मुदितस्तावुवाच च । मदहं युवयोः कार्यमस्ति निदेश || १४ || द्यावयोः प्रसन्नस्त्वं तदा विज्ञापय श्री गुरुम् । आत्रयोः समुदाये च प्रवेशयितुमर्हसि ॥ १४१ ॥ कासिमखानः सूरिराजमाह्वयामास सत्वरम् । जगद्गुरुः सुरिरपि आगमत् खानसन्निधिम् ॥ १४२ ॥ दृष्ट्वा मुनीन्द्र ं च तत्प्राभव विमोहितः । यथोचितं स सत्कृत्य प्रेम्णाऽऽलापमकुर्वत || १४३ || आभाषण प्रसंगे च सुरिश प्रोवाच शासकम् । खान श्रेष्ठ ! महाभाग ! जीवहिसां परित्यज || १४४ || धरायां कः किलैताद्ग्र जीवं यो नात्ति मानुषः । प्रकृत्या सिद्धमेवैतद् जीवो जीवस्य भक्षणम् ॥ १४६ ॥ वहूनामन्न - जीवानामशनादेक स्तुष्यति । भुक्त्वैकं जीवं बहवः पुष्यन्त्यङ्गानि प्राणिनः ॥१४६॥ बहुजीववधादेकजीवहिंसा गरीयसी । अतः किमिति श्रीमद्भिर्जीवहिंसा निषिध्यते ॥ १४७॥ शृणु खान ! महाभाग ! इश्वरोक्तं इदं वचः । अनुकम्पाविधानं हि जीवेषु निखिलेषु च ॥ १४८ ॥ द्विविधौ भूतले जीव स्थावरोन्यस्त्रसाभिधः । स्वयमेव च ये जीवा गन्तुं नाईति कुत्रचित् ॥ १४९ ॥ | स्थावरास्ते समाख्याता खान तच्छ्रयतां यथा । पृथिवी सलिलं तेजो वायुश्वाथ वनस्पतिः ॥ १५० ॥ एतेषां ये च जीवाः स्युः स्थावरास्ते प्रकिर्तिताः । निजप्रभावतो ये न गन्तुमईन्ति प्राणिनः ॥ १५१ ॥ त्रसाः किले समाख्यातास्ते जीवा नामतो यथा । तिर्यक् मनुष्य नारक देवलोकेषु ते स्थिताः ।१५२। स्थावराणां च जीवानां भवत्येकं किलेन्द्रियम् । द्वित्रिचतुःपञ्चेन्द्रियवन्तो भवन्ति च ॥ १५३ ॥ एकेन्द्रियाद्वीन्द्रिया हि
संग्रह