________________
॥९२॥
sriजगद्गुरुम् । कथं हास्यं प्रकुरुवे कारणं वद सद्गुरो ।। ११८|| कथा यदुक्ता भवता अस्ति सा हास्यकारिका । विवेकी as मां हि कथां सत्यं वदेत् किल ॥ ११९ ॥ इमं देहं समुत्सृज्य गन्तुमीश्वरसनिधिम् । इत्यादि यास्त्वयोक्ता हि कथाः सा च खपुष्पवद् ॥ १२० ॥ एवं हि विविधैस्तर्केः । सहितं चोतरं गुरुम् । श्रुत्वा खानः प्रमुदितः प्रशसंस गुरुम् बहु ॥ १२१ ॥ ततः सोऽमार्थयत् सुरिं विनयं ख्यापयन्निदम् । आज्ञापयस्व मद्योग्यं कार्य सुरीश यद् भवेत् ॥ १२२ ॥ उन्मोचनाथ जगडू - साहाख्य श्रावकस्य च । श्रीसूरिः कथयामास आजमखानं हि शासकम् ।। १२३ ।। गुरोराज्ञानुसारेण स च कारागृहान्निजात् । भावकं मोचयामास लक्षदंडाच्च मोचितः ॥ १२४ ॥ जगड साहमुक्तेन खानात् सुरेः प्रभावतः । अमदाबाद श्रीसंघे महान् इषोऽभ्यनायत ||१२५ || आनन्दोत्फुल्लनयना श्रावका निखिलाः खलु । चक्रुर्महोत्सवं रम्यं व्ययम् कृत्वा बहून् धनान् ॥ १२६ ॥ एवमाजमखानस्य श्रद्धा भक्तिश्च द्वे अपि । गुरौ श्री हीरसुरीन्द्रे ववृद्धे चोत्तरोत्तरम् ॥ १२७॥ एकपञ्चाशदधिके षोडशे शतके खलु । ऊनाख्यनगरे सुरिश्रातुर्मास्यं यदाऽकरोत् ॥ १२८ ॥ तदाऽव्याजमखानोहि 'मक्का' तीर्थान्निवृत्य च । जगद्गुरोदर्शनार्थमागमद् भक्तिप्रेरितः ॥ १२९ ॥ मुद्रा सप्तशतीं तेन उपहारीकृतः कील | नाङ्गीचकार यति यदा मुद्रां तदा ह्यसौ ।। १३० ।। अन्यद्धार्मिक कार्ये मुद्रायाश्च व्ययं व्याधात् । ततः श्रुत्वोपदेशं च मुदितस्सन् गृहं ययौ ।। १३१ ।।
कासिमखानः
वैक्रमे षोडशकोनचत्वारिशत् १६४९ शताब्दके । पाटनाख्यं हि नगरं जगाम श्री जगद्गुरुः || १३६ || तदाऽस्य