________________
118011
रस्य कियत्कालमभूत्तथा । तद्वाक्यमाकर्ण्य गुरुरुत्तरं प्रददाविदम् ॥ ८४ ॥ प्राक्सहस्रद्वयादन्दादस्यानुर्व्यामवातरत् । स चतुर्विंशतितमो महावीराख्य तीर्थकृत् ॥ ८५ ॥ एतत्प्रदर्शितं वर्त्ममनुसराभ्यहं किल । अतो वयं महावीर - साधुनाम्ना हि कथ्यते ॥ ८६ ॥ अहिंसा सत्यमस्तेय ब्रह्मचर्यापरिग्रहाः । एतानि पञ्चवतानि पालयामः सदा वयम् ॥ ८७ ॥ द्रव्यक्षेत्र - कालमावान् संविचार्य पदे पदे । महावीरोक्त पन्थानमनुसराम्यहं सदा ||८८ || अस्माद् भगवतः पूर्वं त्रयोविंशतिसंख्यकाः । ऋषभप्रमुखा तीर्थंकरा भूम्यामवातरन् ||८९|| तेषां तीर्थंकराणां च सञ्जातेषु सि( क्षि) तौकिल । असंख्येयानि वर्षाणि व्यती
न शासक १ ॥९०॥ खानस्तत् वाक्यमाकर्ण्य मुदितस्सन्नुवाच च । दीक्षां गृहणन् कियद् वर्षमभूत्तव जगद्गुरो ॥९१॥ अभूदन्दं द्विपञ्चाशद् दीक्षीते मयि शासक ! | कदाप्यस्मिन्नतरे किमीश्वरस्य च दर्शनम् ।। ९२ । चमत्कारोऽथवा कविल ब्धोऽत्र भवता नवा । खानश्रेष्ठ ! जगन्मध्ये नैवागच्छति चेश्वरः ।। ९९ ।। ततः कथं दर्शनं स्यादिति सम्यग विचारय । पितृमातृस्वसृपुत्रदारा स्वजनबान्धवान् ॥ ९४ ॥ कुटुम्बान्निखिलांस्त्यक्त्वा साध्वभूवं ततः पुनः । चमत्कुर्यामहं लोकान् किमर्थं पावन ॥ ९५ ॥ न काइक्षे राज्यमतुलं नैव भोगाः सुखानि च । ततः कथं चमत्कारः कर्तव्याऽस्मादृशैः जनैः ॥ ९६ ॥ तथाप्यद्यापि संसारे विद्या चमत्कारिकाकिल । विद्यते किन्तु ज्ञातारः तस्याः प्रायो न सन्ति हि ॥ ९७ ॥ क्का स्ति कालिकाचार्य इष्टका हेम चाकरोत् । यन्निष्ठीवनैव व्याधिं देहिनां व्युमुचत्तनुम् ॥ ९८ ॥ वैद्यः सनत्कुमारः स इदानीं कुत्र विद्यते । एतादृशाः बहुविधाः विद्यावन्तश्च साधवः ।। ९९ ।। आसन पुराऽत्र संसारे स्वचमत्कारकारकाः । परन्तु ते विचार्यैवं नाऽध्यापयन्त सन्ततिम् ।। १०० ।। पठित्वा गर्वयुक्तो हि स्वसाधुत्वं च त्यक्ष्यति । अद्यापि वेद्यति