________________
धर्मोपदेश
॥८९॥
1-3बद्र
आजमखानः
अष्टाचत्वारिंशदधिके षोडशे शतके खलु । अहमदावादनाम्नी पुरीमायात् सुरीश्वरः ||६९|| तदा चाजमखानाख्यः एतत्प्रान्तियशासकः । जगद्गुरौ च श्रद्धालुरासीदत्रैव पत्तने ॥ ७० ॥ गन्तुं सौराष्ट्रसंग्रामे आसीत् सन्नद्ध एकदा । तदैव धनविजयस्तं मिलित्वाऽब्रवीदिदम् ॥ ७१ ॥ गिरनारादि तीर्थानि सम्राजाचार्पितः किल । आज्ञापत्रं चास्ति तस्य जानात्येव भवानपि ॥ ७२ ॥ अतो हि निखलांस्तीर्थान् प्रदापयितुमर्हसि । इति सन्दिश्य गुरुणा प्रेषितोऽहं तवान्तिके ॥ ७३ ॥ श्रुत्वा यतेर्वचः खानः उत्तरं प्रददाविदम् । कथयित्वा मत्प्रणामं गुरुं पश्चान्निवेदय ||७४ || यास्यामि साम्प्रतं युद्धे प्रत्यागत्य ततः पुनः । भवतः सर्वकार्याणि करिष्यामि न संशयः ।। ७५ ।। ततश्च धनविजयः सूरीश्वरमुपागमत् । प्रतिष्ठतिस्म सौराष्ट्रमाजमखानः ससैनिकः ॥ ७६ ॥ जामनगरप्रभुं तत्र शत्रुशल्यं विजित्य च । पश्चाज्जूनागढ जेतुं अभीयाय स शासकः ॥ ७७ ॥ विजयं प्राप्य तत्रापि आजमखानो महाबळी अहमदावादपुरी परावृत्याऽगमत् पुनः ॥ ७८ ॥ तत्रागत्यैव प्रथममाह्वयश्च जगद्गुरुम् । धनसोमाख्यशिष्याभ्यां सह सूरीश्वरः कील || ७९ || आजमखानस्य प्रासादं अगमत् सुमनोहरम् । तत्रागतं गुरुं दृष्ट्वा सत्कृत्य विधिपूर्वकम् ॥ ८० ॥ आजमखानोऽब्रवीद् वाक्यं सूरिं विनयसंयुतं चिरात् सत्सुक आसम् भगदर्शनलद्धये ॥ ८१ ॥ अद्याऽभिलाषा सफला सफलं मम जन्म च । यत् सामतं भवन्तं हि पश्यामि चिरकाङ्क्षितम् ॥ ८२|| विवेकयुक्तं वचनमेवमुक्त्वा स शासकः । प्रपच्छ यन्महाराजा । भवदूधर्मप्रवर्तकः ॥ ८३ ॥ कोऽस्ति ? तस्यावता -
संग्रह