________________
धर्मोपदेश
॥३॥
मंग्रह
तथाहि क्षेत्रदोषेण, परमापार्मिकैरपि । मिथश्चाऽऽक्लिश्यमानानां, नारकाणां कुतः मुखम् ॥९॥ शीतवातातपाम्भोभिर्वधवन्धक्षुदादिभिः । विविधं वाध्यमानानां, तिरश्चामपि किं सुखम् ? ॥१०॥ गर्भवासजनिव्याधि-जरादारिद्यमृत्युजैः । क्रोडीकप्तानामसुखैर्मनुष्याणां कुतः सुखम् १ ॥११॥ अन्योऽन्यमत्सरामर्षकलहच्यवनाऽसुखैः । मुखलेशोऽपि नैवाऽस्ति, कदाचित् घुसदामपि ।। १२ ।। अज्ञानाञ्जन्मिनो भूयो, भूयः संसारसम्मुखम् । अथापि परिसर्पन्ति, नीचाभिमुखमम्बुवत् ॥१३॥ तद् भव्याश्चेतनावतो, निजेनाऽनेन जन्मना । मा पोषयत संसारं, दुग्धेनेव भुजङ्गमम् ॥ १४ ॥ संसारवासनं दुःखं, विचार्य तदनेकधा । सर्वात्मनाऽपि मोक्षाय, यतचं हे विवेकिनः! ॥१५॥ गर्भवासभवं दुःखं, नरकाऽसुखसन्निभम् । संसारवन्न मोक्षेऽस्ति, जीवानां हन्त ! जानुचित् ॥१६॥ घटीमध्याकृष्यमाणनारकार्तिसहोदरा । नेह प्रसवजन्माऽपि, जायते जातु वेदना ॥१७॥ बहिरन्तःपरिक्षिप्तशल्यतुल्या भवन्ति च । नाऽऽधयो व्याधयो नापि, तत्र बाधानिवन्धनम् ॥१८॥ अग्रदूती कृतान्तस्य, तेजःसर्वस्वतस्करी । पराधीनत्वजननी, न जरा तत्र सर्वथा ॥१९॥ सजायते नारकिकतिर्यग्नृधुसदामिव । न तत्र मरणं भूयो, भवभ्रमणकारणम् ॥२०॥ किन्तु तत्र महानन्दं, सुखमद्वैतमव्ययम् । रूपं च शाश्वतं ज्योतिः, केवलालोकभास्करम् ॥२१॥
१ अङ्कस्थापितानाम् ।