________________
118211
इति परिभाव्य सम्यक् शिष्टाचारगुणादिप्रशंसावता भाव्यं सुश्रावकेनेति । यतः - अकुर्वन्नपि सत्पुण्यं शिष्टाचारप्रशंसया । दम्भसंरम्भुमुक्तात्मा प्राणी प्राप्नाति तत्फलम् ॥ १ ॥ विभ्राणोऽपि गुणश्रेणीरन्येषु गुणमत्सरी । निमञ्जत्येव संसारे मुग्धो दुःखाकुलाशयः ॥ २ ॥ अतो विवेकज्ञजनेन शिष्टाचार - प्रशंसाप्रवणेन भाव्यम् । विशुद्धधर्मोज्ज्वल की र्त्तिलामा - भिलाषिणाऽत्रोचितवृत्तियुक्त्या ॥ १ ॥ ॥ श्री आचारोपदेशः ॥
असौ सदाचारो गुणनिबन्धनं नृणां सदुपदेशाज्जायते, तत्र श्री आचारोपदेशमाह -
सुबुद्धिः सुपदेशेन ततोऽपि च गुणोदयः । इत्याचारोपदेशाख्यग्रंथः प्रारभ्यते मया || १ || सदाचारविचारेण रुचिरश्चतुरोचितः । देवानंदकरो ग्रंथः श्रोतव्योऽयं शुभात्मभिः || २ || पुद्गलानां परावर्तैर्दुर्लभं जन्म मानुषम् । लब्ध्वा विवेकिना धर्मे विधेयः परमादरः ||३|| धर्मः श्रुतोऽपि दृष्टोऽपि कृतोऽपि कारितोऽपि च । अनुमोदितोऽपि नियतं पुनात्यासप्तमं कुलम् ॥४॥ बिना त्रित्रर्ग विफलं पुंसो जन्म पशोरिव । तत्र स्यादुत्तमो धर्मस्तं विना न यतः परौ ॥ ५ ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथंचित्कर्मलाघवात् || ६ || प्राप्तेषु पुण्यतस्तेषु श्रद्धा भवति दुर्लभा । ततः सद्गुरुसंयोगो कम्यते गुरुभाग्यतः ॥ ७ ॥ लब्धं हि सर्वमप्येतत्सदाचारेण शोभते । नयेनेव नृपः पुष्पं गंधेनाज्येन भोजनम् ॥८॥