________________
धर्मोपदेश
॥२९॥
संग्रह
लयत्यसौ ॥ २६ ॥ तावत्स जनकस्तस्मा-त्कोटरानिर्गतः क्षणात । कर्मणा प्रेरितो जीको, जनन्या उदारदिव ॥२७॥ तदानीं तं नृपोऽन्छदरे ! किमिदमद्भुतम् । सोऽपि वृत्तान्तमाचस्यौ, दुःसुतप्रेरणादिकम् ॥ २८ ॥ तं तत्सुतं च ते लोकाः, धिक्कुर्वन्तीति रे ! युवाम् । अकृशाथामिदं किं य-न्मित्रेऽपि द्रोहकारिता ॥ २९ ॥ पापबुद्धिस्ततो राज्ञा, मार्यमाणोऽपि वारितः । लगित्वा पादयोधर्म-बुद्धिना शुद्धबुदिना ॥ ३०॥ धर्मबुद्धस्तदा श्लाघां, निन्दा पापमतेस्तथा। भूपाद्याश्चक्रिरे माया, कटरेऽत्रैव दुःखदा ।। ३१ ॥ एवं बभूवाऽशठवक्रभावयुग, तन्मित्रयुग्मं सुखदुःखभाजनम् । मायां भुजङ्गीमिव दतस्ततो-ऽवदातचित्तास्त्यजत द्रत जनाः ॥३२॥
लोभविजयः आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥१॥ धनहीनः शतमेकं, सहसं शतवानपि । सहस्राधिपतिलक्षं, कोटिं लक्षेश्वरोऽपि च ॥ २॥ कोटीश्वरी नरेन्द्रत्वं, नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं, देवोऽपीन्द्रत्वमिच्छति ॥३॥ इन्द्रत्वेऽपि हि संपाते, यदृच्छा न निवर्तते । मुले लघीयांस्तल्लोभः सराव इव वर्धते ॥४॥
___ आ०-हिंसेव सर्वपापानां, मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां, लोमा सर्वागसां गुरुः ॥५॥ अहो लोभस्य साम्राज्यमेकछत्रं महीतले । तरवोऽपि निधि प्राप्य, पादैः प्रच्छादयन्ति यत् ॥६॥ अपि द्रविणलोभेन, ते द्वित्रि