________________
॥२८॥
पराऽपि च ।। ९ ।। आगतौ स्वगृहे वर्द्धा-पनकं च तयोरभूत । कियद्दिनान्तरे वित्तं तद्भूस्थं पापधीरलात् ॥ १० ॥ अथावसरमासाद्य, पापबुद्धिस्तमत्रवीत् । आगच्छ मित्र ! तद्वित्तं यथा सम्प्रति गृह्यते ॥ ११ ॥ स्थानद्वयं तदालोक्य, रिक्तं प्राह स पापधीः । आः केनापि हृतं वित्त- मावयोर्जीवितोपमम् ॥ १२ ॥ तं धिगस्तु स पापात्मा, प्रियतां किं करिष्यते । त्रिलापान्कुत्रिमानेवं स सत्यानिव निर्ममे ॥ १३ ॥ अथाऽब्रवीत् स पापात्मा, धामिकं धर्म्मबुद्धिकम् । रे धम्म ! रे दुष्ट !, तववैतद्विजृम्भितम् ॥ १४ ॥ धर्म्मबुद्धिरपि माह, भ्रातः ! किमिदमुच्यते । नेदृशं मादृशं कर्म, किन्तु कस्यापि पापिनः ॥ १५ ॥ जातो विवाद उभयोर्गतौ गजकुले च तौ । पापबुद्धिस्तदा प्राह, चौरोऽयं धर्म्मबुद्धिकः || १६ || हुर्नियोगिनः साक्षी, युवयोः कोऽपि विद्यते । पापबुद्धिरभाषिष्ट, साक्षिणो बननाकिनः ॥ १७ ॥ शुद्धबुद्धिर्धर्म्मबुद्धि - स्तदा
चिन्तयत् । अहो ! धृष्टत्वमेतस्य, अहो कपटपाटवम् ॥ १८ ॥ मम श्रीधर्म एवात्र सखाऽन्यैः किं सहायकैः । प्रातः | परीक्षा कर्त्तव्येत्यादि भूपादयोऽब्रुवन् ।। १९ ।। पापबुद्धिस्ततः प्राह, रात्रौ स्वजनकं प्रति । प्रारब्धोऽयं मया कूट - कलहो निखिलोऽपि हि ||२०|| कथं कर्त्तासि तातेनेत्युक्तः स प्राह दुष्टधीः । त्वं तात ! विपिने गत्वा, प्रविश क्वापि कोटरे ||२१|| राजादीनां पृच्छतां च, स्वया वाच्यमिति प्रगे । निष्कलङ्कः पापबुद्धि-धर्म्मबुद्धिस्तु तस्करः || २२ ॥ तेनेतिशिक्षितस्तातस्तथैव निखिलं व्यधात् । प्रत्यूषे मिलिते लोके, स ऊचे च तथैव तत् ॥ २३ ॥ इतस्ततो विलोकन्ते, न च पश्यन्ति कञ्चन । लोकाः सर्वेऽपि सार्या स्तूर्णमुत्कर्णतां दधुः ॥ २४ ॥ सहसात्पन्नबुद्धिस्तु, धर्मबुद्धिस्तदाऽवदत् । राजान प्रति देवेदं, कोटरं ज्लालयिष्यते ॥ २५ ॥ देवो वा मानवो वापि यथा प्रत्यक्षतां व्रजेत् । इत्युक्वा सहसोत्थाय यावतज्ज्या