________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
३ अग्निमण्डलाय दशकलात्मने विशेषाध्यपात्राधाराय नमः । इत्याधारं निधाय तत्र बहूनेदेशकलाः पूर्ववत् पूजयेत् ।
तदुपरि सुवर्णादिनर्मित पात्रं अस्रक्षालितं ३ को सूर्यमण्डलाय द्वादश कलात्मने विशेषार्थ्यपात्राय नमः । इति निधाय सूर्य मण्डलत्वेन विभाविते तत्र ऐ ह्रीं श्रीं ह्रीं ऐं परमस्वामिन्यूर्ध्वशून्यप्रवाहिनी सोम्-सूर्य- अग्निभक्षणी परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृहूण प्रतिगृहूण हुं फट् स्वाहा | इति पुष्पाज्जलि दत्वा प्राग्दर्शितक्रमेण द्वादशदनेश कलाः संपूजयेत् ।
ततः सौंः सोममण्डलाय नमः षोडश कलात्मने विशेषार्थ्यांमृताय नमः इति कलशगतं कस्तूरिकादिवासितं क्षीरमभिपूर्य तत्र अष्टगन्धलोलित कुसुमं निक्षिप्य मूलकशकलान्यार्द्रक खण्डांश्च समय सोममण्डलत्वेन विचिन्तिते तत्र षोडशेन्दुकलाः संभाव्य संपूजयेत् ।
तत्र विशेषार्थ्यामृते स्वाप्रकोणादिप्रादक्षिण्येन अकथादिषोडशवर्णात्मक रेखामयं त्रिकोणं विलिख्य तदन्तः स्त्राग्रादिकोणेषु प्रादक्षिण्येन हलझान् विलिख्य बहिश्च मूलखण्डत्रयं विन्दौ म बन्दु (ई) तुरीयस्वरं तद्वामदक्षयोः क्रमेण हंसः इति च नृणो विलिख्य ऐं ह्रीं श्रीं हंसः नमः । इति मन्त्रेणाराध्य त्रिकोणस्य परितो वृत्तं तवहिः षट्कोणं च विधाय स्वाप्रादिप्रादक्षिण्येन षडङ्गयुवती: पूजयेत् । यथा ऐं ह्रीं श्रीं प्रथमकूटं श्रीमहात्रिपुरसुन्दरी सर्वज्ञशक्तिधाम्ने हृदयाय नमः । ऐं ह्रीं श्रीं द्वितीयकूटं श्रीमहात्रिपुरसुन्दरीनित्यतृप्तियाने शिरसे स्वाहा । ऐ ह्रीं श्रीं तृतीयकूट श्री
For Private and Personal Use Only