________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीये सुषमदुःषमानामके अरेऽपि व्यतीते सति तत्स्वरूपमिदम्-द्विकोटाकोटिसागरप्रमाणं तत्र युगलकानां एकपल्योपमायुः, एकक्रोशप्रमाणं शरीरम् , एकान्तरे आमलकप्रमाणं आहारं गृह्णाति, ६४ पृष्ठकरंडकः (पांशुल्यः) ७९ दिनानि यावत् अपत्यपालनां करोतीति ॥ ३ ॥ दुःषमसुषमानामके चतुर्थारके ४२ सहस्रवर्षेन्यूने एकसागरोपमकोटाकोटिमाने व्यतीते तत्स्वरूपमिदम्-४२ सहस्रवर्षन्यून-एककोटाकोटिसागरप्रमाणं तत्र मनुप्याणां एकपूर्वकोटिवर्षायुः ५०० धनुर्देहमानं नित्यं आहारं करोतीति ॥४॥ पञ्चमो दुःषमानामा अरः.. तत्वरूपमिदम्-२१ सहस्रवर्षप्रमाणं तत्र १०० वर्ष मनुष्याणां आयुः, सप्तहस्तदेहमानमिति ॥ ५ ॥ षष्ठो दुःषमदुःषमाभिधः अरः, तत्स्वरूपमिदम्-२१ सहस्रवर्षप्रमाणं १६ वर्षायुः (२० पाठान्तरे) नराणां एकहस्तप्रमाणं शरीरं मत्स्यमांसाहारी ॥६॥ इति उक्तं आरकाणां खरूपम् ॥ | अथ-"पंचहत्तरीए वासेहिं अद्धनवमेहिं अ मासेहि सेसेहि" कोऽर्थः? चतुर्थारकस्य तृतीया सप्तम्यर्थे । ततः * पञ्चसप्ततिवर्षेषु सार्द्धाष्टमासाधिकेषु सत्सु ७५ वर्षे सार्दाष्टमासा ८॥ एतावता श्रीमहावीरदेवस्यायुः ७२ वर्षाणि । ततः परं त्रिभिवः सार्धाष्टमासैश्च एकोननवतिपक्षरित्यर्थः चतुर्थारकः पूर्णो जातः । पुनरेकविंशतितीर्थकारेषु इक्ष्वाकुकुलसमुत्पन्नेषु काश्यपगोत्रेषु व्यतिक्रान्तेषु सत्सु, पुनर्रयोर्मुनिसुव्रतनेमिनाथयोहरिवंशकुलसमुत्पन्नयोगौतमगोत्रयोर्व्यतिक्रान्तयोः सतोः। एवं त्रयोविंशतितीर्थङ्करेषु व्यतिक्रान्तेषु सत्सु चरमतीर्थकरः पूर्वतीर्थङ्करेण श्रीऋषभदेवेन भरतस्य अग्रे निर्दिष्टः अयं मरीचिश्चतुर्विंशतितमतीर्थङ्करो भावीति कथितः ।
****XXXXXXX
For Private and Personal Use Only