________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०१
षडारकाणां खरूपम् ।
॥१५॥
व्याख्या-तस्मिन् काले तस्मिन् समये, श्रमणो भगवान महावीरः ग्रीष्मस्य स्त्रीत्वं बहुत्वं च आर्यत्वात् । चतुर्थे मासे अष्टमे पक्षे आषाढसुदि "चट्ठीपक्खे णं ति" दिनरात्रिभ्यां अहोरात्रिभ्यां अहोरात्रस्य उभय- |पक्षत्वात् षष्ट्या अहोरात्रस्य रानी, कापि "छट्ठीदिवसे णं त्ति" पाठः, तत्र दिवसशब्देन तिधिग्ाह्या, तस्यां रात्री महाविमानात् च्युत्वा । परं कीहशात् महाविमानात्? । महान विजयो यन्त्र । तच तत् पुष्पोत्तरं च पुप्पोत्तरनामकं तदेव प्रवरेषु पुण्डरीकमिव उत्तमत्वात् । पुनः किंविशिष्टान् महाविमानात् । विंशतिसागरोपमस्थि-x तिकात् । “आउक्खएणं त्ति" देवसंबंधिनः आयुषः क्षयेण, "भव ति" भवस्य देवगतेःक्षण, "टिइक्वएणं" स्थितेराहारस्य वैक्रियशरीरे अवस्थानस्य वा क्षयेण "अणंतरं त्ति अन्तररहितं पश्चादित्यर्थः । “चर्य" देवसम्बन्धि शरीरं । 'चइत्ता" त्यक्त्वा, अथवा चयं च्यवनं "चिच्चा" कृत्वा, "इहेव जंबुद्दीवे" अस्मिन्नेव जम्बूद्वीपे नान्यस्मिन् , यतो जम्बूद्वीपा अन्ये असङ्ख्याताः सन्ति । भरतक्षेत्रे अस्यां अवसर्पिपयां सुषमसुषमानामके
प्रथमे अरे व्यतिक्रान्ते सति तत्स्वरूपं च इदम्-चतुष्कोटाकोटिसागरप्रमाणं, तत्र युगलकानां त्रिपल्यो*पमायुः त्रिक्रोशप्रमाणं शरीरम् , चतुर्थ दिने तुअरीकणमात्रम् आहारं गृह्णाति, २५६ पृष्ठकरंडकः (पांशुल्या) ४९ दिनानि यावत् अपत्यपालनां करोतीति ॥१॥ पुनः सुषमानामके द्वितीयेऽपि अरे व्यतीते सति तत्स्वरूपं चेदम्-त्रिकोटाकोटिसागरप्रमाणं, तत्र युगलकानां द्विपल्योपमायुः कोशद्वयं देहप्रमाणम् , तृतीयदिने बदरप्रमाणम् आहारं गृह्णाति, १२८ पृष्ठकरंडकः (पांशुल्यः) ६४ दिनानि यावत् अपत्यपालनां करोतीति ।।२॥
॥ १५ ॥
For Private and Personal Use Only