________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandi
वीणालीया, जे हूंता स्ववास तीए मूकी जीवारी आस,जे हुंता कायर तिणनह सांभरइ आपणी बायर, जे चडता बाहर ते हथियार छोडी थया काहर, जे ढोलाइ दमकइ मिलता ते गया पासइ टलता, जे बांधता मोटी पाघडी ते उभा न रया एका घडी, जे हुंता एकएकडा तिणरे नाम दिया बेकडा, जे माधइ धरता आंकडा ते मुहडा कीया वांकडा, जेवणावता सारंगी बांकी तीए तर रणमूमिका पण पाकी, जे बांधता बिई पासे कटारी तीयांनइ नासतां भूमि पड़ी भारी, जे पहिरता लांबा साडा तीए नासिते कोडिकिया पवाडा, गर्दभिल्ल नाठउ बोल पणउ माठउ, गढमाह जई पठउ, चिंता करइ बैठउ, पोलि ताला जज्या कालिकाचार्यना कटक चहुंदीसी विटी पड्या । अथ उज्जयिनीनगरीमध्ये गर्दभिल्लो बहिस्थात् श्रीकालिकाचार्यसैन्यं, एवं कतिचिदिनेषु गतेषु साखीराजस्य सुभटा दुर्गस्य चतुर्दिक्षु भ्रमन्तो विलोक्यन्ति, परं दुर्गशीर्थोपरि तदीयं सुमटमात्रं न पश्यन्ति । ततः तैः आगत्य श्रीकालिकाचार्याणां विज्ञप्त-- हे भगवन् ! अद्य दुर्गोपरि न कोऽपि सुभटो दृश्यते, न कोऽपि युध्यति च, तत् कथं ?।" तेन ततः श्रीकालिकाचार्यः सूफ्योगं दत्त्वा, ज्ञात्वा च तेषां प्रोक्तं-"भो ! अद्य कृष्णाष्टमी वर्तते, तेन गर्दभिल्लो गर्दभी विद्या साधयन् अस्ति, यूयं पश्यत, यदि कुत्रापि दुर्गोपरि बहिर्मुसा गर्दभी खिता भवति, तदा सत्यं," तैः विलोकयद्भिः सा तथैव दृष्टा । तत आगत्य प्रोक्तं च- हे भगवन् ! भवतां वचनं सत्यं जातं, अस्मामिः सा तथैव दृष्टा ।" ततः श्रीगुरुभिः प्रोक्तं-"शृण्वन्तु एतत्परमार्थ, यदा एषा विद्या सम्पूर्णा सिद्धा भविष्यति तदा सा गर्दभी शब्दं करिष्यति, तच्छन्दं ये शत्रवः श्रोष्यन्ते ते मुखात् रुधिरं बमन्तो भूमौ पतिप्यन्ति मरिष्यन्ति वा।" एतां वार्ता श्रुत्वा साखीराप्रमुखा भयभ्रान्ता विज्ञपयन्ति स-“हे भगवन् ! कोऽपि उपायः कर्तव्यः, येन तद्विद्या न प्रभवति।"
ततः श्रीकालिकाचार्यैः प्रोक्तं-"सर्वमपि निजसैन्यं कोशपञ्चकं दूरे स्थापयन्तु, मम च पा शब्दवेधिसुमटानां अष्टोत्तरशतं सावधानीभूय तिष्ठतु, *यदा च एषा रासभी शब्दकरणाय मुखं प्रसारयति तदा समकालं अष्टोत्तरशतवाणैः तूणीरवत् तस्या मुर्ख पूरणीयं, यथा सा शब्दं कर्तुं न शक्नोति,
For Private and Personal Use Only