________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रे
| कालिका
चार्यकथा
॥२८९॥
का अधिकं भयं
नास साहानुसार सुहासमा
राजापि अत्यन्तहृष्टतुष्टमनस्को गुरूणां अतिवहुमानं दत्ते । एवं च सति गतानि कियन्ति दिनानि । तदवसरे एकदा एको दूतः एकं कच्चोलकं छुरिकासहितं लेख चामे मुक्त्वा राज्ञः प्रणम्य सन्मुखं स्थितः । ततः साखीराजो लेख वाचयित्वा तत् विलोक्य च श्याममुखो बभूव ।। ततः श्रीकालिकाचार्यैः उक्तं-"भवतां खामिप्राभृतं समागतं, तत्र हों विलोक्यते, तलो हर्षस्थाने विषादः कथं ।" राजा प्राह-"अहो! महापुरुष ! अद्याऽस्माकं मरणरूपं महाभयं जातं । मरणात् अपि अधिकं भयं किमपि नास्ति । यतः-"पंथसमा नत्थि जरा, दारिद्दसमो पराभवो नस्थि । मरणसम नत्थि भयं, सुहासमा वेयणा नत्थि ॥१॥" ततः सूरिभिः पृष्टं-"किं तत् भयं ?।" राजा प्राह-“हे भगवन् ! योऽस्माकं क्रुद्धः स्वामी स साहानुसाही वर्तते, तेन कुपितेन लिखितं वर्तते, 'यदुत अनया छुरिकया निजमस्तकं छित्त्वा अस्मिन् कच्चोलके क्षित्वा शीघ्र मोच्य, नो चेत् तव सकुटुम्बस्य क्षयो भावी ।' यथा मम तथाऽन्येषामपि मम तुल्यानां ९५ पञ्चनबतिसाखीराजानां दूतो मुक्तोऽस्ति । अतो महाभयं किं क्रियते ?, कुत्र गम्यते !, कथं छुश्यते !" ततः श्रीकालिकाचार्यैः विचारित-"अयं अवसरः, मम च कार्य ।" ततः साखीराजाय प्रोक्तं-“हे राजन् ! मा म्रियख, मा चिन्तां कुरु, जीवन् नरो भद्रशतानि पश्यति । यथा दृष्टान्तः-'भानुश्च मश्री दयिता सरस्वती, मृतिं गता सा नृपकैतवेन । गङ्गातटस्था पुनरेव लेभे, जीवन् नरो भद्रशतानि पश्येत् [पश्यति ॥” अत्र समये सति दृष्टान्तो वाच्यः ।। ततः (९५) पञ्चनवतिसाखीराजानः भवान् च सर्वेऽपि एकीभूय मया सार्धं चलन्तु । यथा हिन्दुकदेशे गत्वा गर्दभिल्लनृपं उच्छेद्य उज्जयिनीराज्य विभज्य भवतां समर्प्यते !" ततः सूरिवचने प्रतीतिं कृत्वा लेखप्रेषणपूर्व सर्वान् ९५ राज्ञ आहूय एकत्र मिलिल्वा प्रयाणढका दापयित्वा सर्वेऽपि ९६ साखीराजानः श्रीकालिकाचार्यसहिताः चलिताः, अग्रे गच्छन्तः सिन्धुनदी उत्तीर्य, सौराष्ट्रदेशमध्ये सुखेन समागताः । तदवसरे वर्षाकालः प्रादुर्बभूव । स कीदृशः । “आयो वर्षाकाल चिहुं दिसि घटा उमटी तत्काल । गडडाट मेह गाजइ, जाणे नालिगोला बाजइ ।
॥२८९॥
For Private and Personal Use Only