________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ टीकाकार - प्रशस्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशासनाधीश्वरवर्धमानो, गुणैरनन्तैरतिवर्धमानः ।
यदीयतीर्थं ख-ख-खा-ब्ज-नेत्र, ( २१०००) वर्षाणि यावद्विजयि प्रसिद्धम् ॥ १ ॥ तदीयशिष्यो गणभृव पञ्चमः, सुधर्मनामाऽस्य परंपरायाम् । बभूव शाखा किल वज्रनाम्नी, चान्द्रं कुलं चन्द्रकलेव निर्मलम् ॥ २ ॥ तद्गच्छे स्वभिधानतः 'खरतरे' यै: 'स्तम्भना'धीश्वरो, भूमध्यात् प्रकटीकृतः पुनरपि स्नानोदकादुग्गता । स्थानाङ्गादि[नि]नवाङ्गस्त्रविवृतिर्न व्याऽति भव्या कृता, श्रीमन्तोऽभयदेवसूरिगुरवो जाता जगद्विश्रुताः ॥ ३॥ यो योगिनीभ्यो जगृहे ददौ च वरान् बरान् जाग्रदनेकविद्यः । पञ्चापि पीरान् खवशीचकार, युगप्रधानो जिनदत्तसूरिः ॥ ४ ॥ पुनरपि यस्मिन् गच्छे बभूव जिनकुशलनामसूरिवरः । यस्य स्तूपनिवेशाः सुयशः पुञ्जा इवाभान्ति ॥ ५ ॥
For Private and Personal Use Only