________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारणं भर्दन ! ? तत्र आचार्य आह - "ओसनेणं त्ति" प्रायेण श्रमणा भगवन्तो वर्षासु तपः संप्रयुक्ताः भवन्ति प्रायश्चित्तवहनार्थं संयमार्थं स्निग्धकाले मोहजयार्थं वा पछादितपश्चारिणो भवन्ति । ते च तपखिनो दुर्बलाः तपसैव कृशाङ्गाः अत एव क्लान्ताः सन्तो मूच्छे [ये]युः वा प्रपतेयुर्वा । तत्र मूर्च्छा-इन्द्रियमनोवैकल्यं । प्रपतनं दौर्वल्पात् प्रस्वत्यभूमौ पतनं । तामेव दिशं अनुदिशं वा श्रमणा भगवन्तः प्रतिजाग्रति प्रतिचरन्ति गवेषयन्ति । अयं भावार्थ:- भक्ताद्यर्थं ग्रामादी यस्यां दिशि विदिशि वा गच्छेयुः तां गुर्वादिभ्यः कथयित्वा गच्छन्ति, येन तेषां तत्र गतानां तपःक्कुमादिसूच्छितानां प्रपतितानां वा पाश्चात्याः साधवः तस्यां दिशि विदिशि या अभ्येत्य सारां कुर्वन्ति । अकथयित्वा अनुगनानां दिगपरिज्ञानात् कथं ते सारां कुर्युः ॥ इति षडविंशतितमा सामाचारी ॥ २६ ॥
अथ ग्लानादिकार्ये गत्वा पुनरागमनाधिकाररूपां सप्तविंशतितमसामाचारी आह
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा गिलाणहेउं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए अंतराऽवि से कप्पड़ वत्थए, नो से कप्पड़ तं स्यणि तत्थेव उवायणावित्तए ॥ ६२ ॥ ( (२७) व्याख्या-“वासावासं” वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च वर्षाकल्पौषधवैद्याद्यर्थ ग्लानसारा
For Private and Personal Use Only