________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरूं आपृच्छयैव परं न अनाच्छय कर्तव्यं, अत्र प्रत्यपायान् अयं समर्थोऽसमर्थो वा, अयं वैयावृत्तिकरो वा अन्यो वा पारणकयोग्यं लाजाभरणादिसन्धुक्षणयोग्यं अस्ति नास्ति वा इत्यादिकान आचार्या एव विदन्ति । ७। एवं भिक्षुः अपश्चिम-चरमं मरणं अपश्चिममरणं, न पुनः यत् प्रतिक्षणं आयुर्दलिकानुभवलक्षणं आधीचिकमरणं तदेव अन्तोऽपश्चिममरणान्तः तत्र भवाः आपत्वात् उत्तरपदवृद्धौ अपश्चिममारणान्तिकी सा चासौ संलेखना च संलिख्यते-कृशीक्रियते शरीरकषायादि अनया इति संलेखना, सा च द्रव्यभावभेदभिन्ना “चत्तारि विचित्ताई" इत्यादिका अपश्चिममारणान्तिका संलेखना च तस्या जोषण-सेवा, तया "जूसिअत्ति” क्षपितशरीरः अत एव प्रत्याख्यातभक्तपानः पादपोपगतः कृतपादपोपगमनः अत एव काल-जीवितकालं मरणकालं वा अनवकाङ्कनअनभिलषन् विहाँ इच्छेत् , तदापि गुरूं आपृच्छयैव नो अनापृच्छय, यतः प्रत्यपायात् । अयं निस्तारको न वा अस्य निर्यापकाः सन्ति न वा ? । पुनःक्षपकस्य हि उदरमलशोधनार्थ त्वगेला-नागकेशर-तमालपत्र-मिश्रितशर्कराकथित-शीतलक्षीर-लक्षणं समाधिपानकं पाययित्वा पूगीफलादिद्रव्यैः मधुरविरेचः कार्यते, निर्यापकास्तु उर्तनाद्यर्थ तस्य अष्टचत्वारिंशत् विलोक्यन्ते ते सन्ति न वा? | इत्यादिकान् आचार्या एव जानन्तीति ८ एवं भक्तपानादि ग्रहीतं एवं उच्चारं वा प्रश्रवणं "परिहावित्तए ति" परिष्ठापयितुं व्युत्स्रष्टुं ९ एवं धर्मजागरिकां आज्ञापाय-विपाक-संस्थान विचय-भेदधर्मध्यानविधानादिना
For Private and Personal Use Only