SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-"वासावासं” अथ ऋतुबद्धकालः१ वर्षालक्षणकालः २ कालद्वयसामान्या सामाचारी, वर्षासु विशेषेण उच्यते । वर्षाकाले स्थितो भिक्षुः इच्छेत् गाथापतिकुले गन्तुं भक्तपानाद्यर्थं तदा तस्य नो कल्पते । "अनापछथ आयरियं वे"त्यादि । आचार्य: सूत्रार्थव्याख्याता दिगाचार्यों वा १ उपाध्याय: सूत्राध्यापकः २ स्थविरो-ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानां उपबृंहकश्च ३ प्रवर्तकः ज्ञानादिषु प्रवर्तयिता, तत्र ज्ञाने पठ Xएवं गुणय-शृणु, उद्देशादीन कुरु इति । दर्शने च दर्शनप्रभावकान् संमत्यादितर्कान अभ्यस्य इति । चारित्रे शुद्धपायश्चित्तं उद्बह इति, अनेषणा दुःप्रत्युप्रेक्षितानि च मा कृथाः इति, यथाशक्ति द्वादशधा तपो विधेहि इति | ४ गणी यस्य पार्श्वे आचार्याः सूत्रादि अभ्यस्यन्ति गणिनो वा अन्ये आचार्याः सूत्राद्यर्थ उपसंपन्नाः ५ गणधरम् तीर्थकृत् शिष्यादिः ६ गणावच्छेदको यः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूचार्थीमयवित् ७ यदबा संघाटिकाधिपतित्वेन सामान्यसाधु अपि पुरस्कृत्य विहरति ८ एतान् आचार्यादीन आपृच्छय तस्य साधोर्विहर्तु कल्पते । कथं पृच्छति?, इत्याह-"इच्छामि भदंता! भवद्भिरभ्यनुज्ञातः सन् गृहस्थगृहं भक्तपानाद्यर्थं गच्छामि” इत्युक्ते शिष्येण "ते य से वियरिजा” इति ते च आचार्यादयः "से" तस्य साधोः वितरेयुः अनुज्ञां दद्युः, एवं तस्य कल्पते गृहस्थगृहे गन्तुं आहाराद्यर्थ, अथ अनुज्ञा ते आचार्यादय न दद्युः तदा न कल्पते। शिष्य आह-"किमाहु भंते!" भदन्ताः किमेवं आहुः? उत्तरमाह-"आयरिया पचवायं जाणंति ति" इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात् For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy