________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राणसूक्ष्मं । शिष्यः पाह-"किं तत् पनक ?” गुरुः आह-"पनकसूक्ष्म पञ्चविधं कृष्णादिवर्णभेदेन मोक्तं ।। | पनक-उल्लीः स च प्रायो वर्षाकाले भूमिकाष्ठभाण्डादिषु जायते, यत्र च उत्पद्यते तद्व्यसमवर्णश्च “नाम पन्नत्तेत्ति" नामेति प्रसिद्धी, तत् पनकसूक्ष्मं २। अथ किं तद् वीजसूक्ष्मं? बीजसूक्ष्ममपि कृष्णादिपश्चवर्णभेदेन पञ्चविधं भवति। किं तत् ? । कणिका-शाल्पादिवीजानां मुखमूले 'नहीं' इति लोकरूढिः, नखिका तत् छद्मस्थेन ज्ञातव्यं १ द्रष्टव्य २ प्रतिलेखितव्यं च ३ । अथ किं तत्।। हरितसूक्ष्म, हरितसूक्ष्ममपि कृष्णादिपञ्चवर्णभेदेन पञ्चविधं, तत् हरितसूक्ष्म पृथिवीसमानवणं, तच अल्पसंहननत्वात् स्तोकेनापि विनश्यति, तदपि छमस्थेन ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च इति हरितसूक्ष्म ४ । अथ किं तत् पुष्पसूक्ष्म ? पुष्पसूक्ष्ममपि कृष्णादिपञ्चवर्णभेदेन पञ्चविधं, तच पुष्पसूक्ष्म वटोदुम्बरादीनां तत् समवर्णत्वात् अलक्ष्य, तच उच्चासेनापि विराध्यते, तदपि ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च । इति पुष्पसूक्ष्म ५। अथ किं तत् अण्डसूक्ष्म । अण्डसूक्ष्ममपि कृष्णादिपञ्चविधवर्णमेदेन पञ्चविधं, तद् यथा-उदंशाः मधुमक्षिकामत्कुणाद्याः तेषां अण्डानि १ पुनः "उकलिअंडे" उत्कलिता-जूतापुटं तदण्डानि २ "पिपीलिअंडे" पिपीलिकानां कीटिकानां अण्डानि ३ पुनः "हलिअंडे" हलिकान्गृहकोकिला ब्राह्मणी वा तदण्डानि ४ पुनः "हल्लोहलिअंडे" हल्लोहलिया अहिलोडी | सरडी कर्षिडी इत्येकार्थः, तस्याः अण्डानि एतानि हि सूक्ष्माणि स्युः । एतदपि हलिअण्डं ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च सूक्ष्मत्वात् ६। अथ किं तत् खेनसूक्ष्म? । लेनसूक्ष्म अपि पश्चविधं, तथाहि-"लेणे ति" लयन
कस्प०४४
For Private and Personal Use Only