________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एव माता मृता। विमात्रा अपमानितः सन् नित्यं दूनो दुःखितस्तिष्ठति । खमित्रस्य श्राद्धस्य वचनेन सर्वदुःखापहारि तपः कुर्वन् तिष्ठति । एकदा श्रीपर्युषणापर्वणि समागते खमित्रश्राद्धवचनेन अष्टमं तपः कृत्वा, एकस्मिन तृणगृहे सुप्तः, तावता आसन्नं प्रदीपनं लग्नम् । ततो विमात्रा तन्मारणाय तस्मिन्गृहे अग्निः क्षिप्तः। ततः स तपोध्यानैकाग्रचित्तः तव्यथां अविज्ञाय मृत्वा अपुत्रस्य अस्य श्रेष्ठिनो गृहे पुत्रो जातः। ततः पूर्वभवसंस्कारात् पर्युषणापर्वदिनं श्रुत्वा जातिस्मरणेन अष्टमं तपः कृतवान् । स्तन्यमपि अपियन मूर्छया मृत इति ज्ञात्वा | वजनैर्भूमौ निक्षिप्तः, मया अमृतपानेन जी[व]वित इति । ततो धरणेन्द्रो बालस्याहारं दत्त्वा, स्वस्थानं गतः। राजा इति विस्मयकारिणी बालकथां श्रुत्वा, बालस्य मातुः कथयति स्म-'अयं बालो भव्यरीत्या रक्षणीय इति। तदादितः खजनै,लकस्य नागकेतुरिति नाम दत्तम् । अथ स बालो वर्द्धमानः चतुःपा चतुर्थ, चतुर्मासके षष्ठं, पर्युषणायां अष्टमं कुर्वन् सामायिक-पौषध-देवपूजादि धर्मकर्तव्यतत्परः सन् , यौवनेऽपि जितेन्द्रियो बभूव । अन्यदा राज्ञा एकश्चौरो व्यापादितः, स मृत्वा व्यन्तरो जातः, तेन व्यन्तरेण अदृश्यीभूतेन पादेन आहत्य सिंहासनात् राजा भुवि पातितः, लोकश्च सर्वोऽपि व्याकुलीभूतः। पुनरपि व्यन्तरो नगरोपरि महतीं शिलां| विकुळ दुर्वचनेन लोकान् भापयामास । ततो नागकेतुः श्रावकश्चतुर्विधसङ्क-जिनमासादप्रतिमारक्षार्थ उच्चैः प्रासादोपरि चटित्वा, तां व्यन्तरमुक्तां महतीं शिलां करेण धृतवान् । तस्य तेजसा हतप्रतापो व्यन्तरः शिलां संहृत्य नागकेतुं नत्वा राजानं समाधिमन्तं कृत्वा स्वस्थानं गतः। ततो नागकेतुश्राद्धो राजादीनां विशेषतो
For Private and Personal Use Only