________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
Kal
पञ्चमी |सामाचारी
॥२४६॥
इति । तदा दानं स्वस्मै प्रतिग्रहणं च कल्पते । गुरुभिः अनुक्ते चेत् ग्लानाय आनयति स्वयं वा गृह्णाति तदा परिष्टापनिकादोषोऽजीर्णादिना ग्लानत्वं वा मोहोद्भवो वा क्षीरादौ च धरणाधरणे आत्मसंयमविराधना ॥ इति चतुर्थी सामाचारी ॥४॥ __ अथ रसविकृति-त्यागरूपां पश्चमी सामाचारी प्राह__ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं तुट्ठाणं आरोगाणं
वलियसरीराणं इमाओ नव रसविगईओ अभिक्खणं २ आहारित्तए, तं जहा-खीरं १ दहिं २ नवणीयं ३ सपि ४ तिल्लं ५ गुडं ६ महं ७ मजं ८ मंसं ९॥ १७ ॥ (५) व्याख्या-"वासावासं पज्जोसवियाणं" वर्षाकाले स्थितानां साधूनां साध्वीनांच एवंविधानां नवरसविकृतयो वारं वारं गृहीतुं न कल्पन्ते । किं विशिष्टानां निर्ग्रन्थानां ? । हृष्टानां-तरुणत्वेन समर्थानां । युवानोऽपि केचित् | सरोगाः स्युः इत्याह-"आरोगाणं", कचित् "आरुग्गाणं" इति पाठः, तत्र आरोग्यं अस्ति एषामिति, अभ्रादित्वात् अप्रत्यये आरोग्याः तेषां, ताशा अपि केचित् कृशाङ्गाः स्युः इत्याह-बलिकशरीराणां रसप्रधाना विकृतयो रसविकृतयः ता अभीक्ष्णं पुनः पुनः न कल्पन्ते, रसग्रहणं तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्ष्णग्रहणं पुष्टालम्बने कदाचित् तासां परिभोगानुज्ञार्थ, नवग्रहणात् कदाचित् पक्वान्नं गृह्यते । विकृतयो द्वेधा
॥२४६॥
For Private and Personal Use Only