SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org सिंहगिरि कल्पमत्र कल्पलता व्या०८ स्वाम्यादि सम्बन्धः ॥२२७॥ ष्यन्ति" इति प्रतिज्ञा कृता । ततो द्वादश १२ प्रहरैः पूर्व दुर्वातेन दूरतटे निक्षिप्तानि युगन्धरीवाहनानि सुवातेन आगतानि, सुभिक्षं जातं, युगं उद्धृतं, ततो 'युगन्धरीनाम' जातं । ततः तया चत्वारोऽपि निजपुत्रा नागेन्द्र १चन्द्र २ निर्वृति ३ विद्याधर ४ नामानः तेषां दीक्षा दापिताः, पश्चात् स्वपमपि मातापितरौ दीक्षां ललतुः। ते चत्वारोऽपि बहुश्रुताः सूरयो जाताः, तेभ्यः चतस्रः शाखा जाताः, ता अद्यापि दृश्यन्ते ॥ इति श्रीसिंहगिरि १ वज्रवामि २ वज्रसेन ३ सम्बन्धः २३।। एवं श्रीमहागिरि १ श्रीमुहस्तिसूरि २ श्रीगुणसुन्दरसूरि ३ श्रीश्यामाचार्य ४ श्रीस्कन्दिलाचार्य ५ रेवतीमिन्न ६ श्रीधर्म ७ श्रीभद्रगुप्त ८ श्रीगुप्त ९ श्रीवखामि १. नामानः एते युगप्रधाना दशपूर्वघरा जाताः, तथा पूर्व तु संक्षेपवाचनया स्थविरावली उक्ता व्याख्याता च । सांप्रतं विस्तरवाचनया स्थविराचली आह-तत्र सूत्रम्-"वित्थरवायणाए पुण" अत्र आलापके इदं रहस्य-विस्तरवाचनायां बहवो वाचनाभेदा लेखकवैगुण्यात् जाताः, तत् तत्स्थविराणां च शाखाः कुलानि च प्रायः सांप्रतं न अवबुध्यन्ते । नामान्तरतिरोहितानि वा भविष्यन्ति, अतो निर्णयः कर्तुं न पार्यते पाठेषु शाखासु । कचिदादर्श 'कोडुबाणि' इति दृश्यते कचित् 'कुंडधारी' इति, तथा कचित् 'पुण्णपत्तिया' इति, कचित् 'सुवषणपत्तिा ' इति । एवं कुलेष्वपि कचित् 'उल्लगच्छत इति" पाठः, कचित् 'अह-उल्लगंथन इति तस्मात् अत्र बहुश्रुता एवं प्रमाणं, मा भूत् उत्सूत्रमिति । तत्र कुलं एकाचार्यसन्ततिः, शाखास्तु तस्यां एव सन्तती पुरुषविशेषाणां पृथक् पृथक् अन्वयाः। एकवाचनाऽऽचारयति समुदायो गणः, अथवा शाखाविव ॥२२७॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy