________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०८
॥२२१॥
लजितः। ततो वराहोऽन्यत्र गत्वा मृत्वा व्यन्तरो भूत्वा, जनानां मरकोपद्रवं करोति स्म । ततः श्रावकाणां स्थूलभद्रउपद्रव निवारणाय महानायमयं "उवसम्गहरस्तोत्रं कृत्वा अर्पितं । ततः सङ्घन सर्वत्र प्रतिगृहं पठितं । तत्प्र- सम्बन्धः भावेण व्यन्तरो नष्ट्वा गतः । जातं सर्वत्र शुभं महाप्रभावस्तोत्रं, गौरपि कदाचित् कथश्चित् दुग्धं न दत्ते, तदापि लोका इदं स्तोत्रं गुणयन्ति । ततः शेषनाग आगत्य विघ्नं वारयति । एवं प्रत्यहं प्रतिगृहं आगच्छन् शेषनागः खिन्नः सन् श्रीगुरुं विज्ञपयति स्म-"अहं सङ्घपार्धात् क्षणमपि स्थातुं न शक्नोमि । ततः षष्ठी गाथा अतिशयभृता दूरीक्रियतां । अहं स्वस्थानस्थोऽपि गाथापञ्चकेनापि विघ्नं स्फोटयिष्यामि ।” ततो गुरुणा षष्ठी गाथा भाण्डागारे क्षिप्ता । श्रीभद्रबाहुस्वामिना कृताः श्रीआवश्यकनियुक्त्यादयोऽनेके ग्रन्थाः सन्ति । एवंविधाः श्रीभद्रबाहुखामिनो वीरात् सप्तत्यधिकवर्षशतेन १७० स्वर्ग जग्मुः ६॥
श्रीसंभूतिविजयस्य माढरगोत्रस्य अन्तेवासी शिष्यः श्रीस्थूलभद्रो गौतमगोत्रीयोऽभूत् , तस्य चायं संवन्धः-* | श्रीपाटलिपुरनगरे नवमनन्दमश्री शकडालः, भार्या लाञ्छलदे, तयोः पुत्रदयं-स्थूलभद्रः १ सिरियाकश्य २ । एकदा वररुचिः भट्टः आगतः । सः राजानं प्रत्यहं अष्टोत्तरशतकाव्यैः स्तौति, परं मिथ्यात्वित्वात् मन्त्री न प्रशंसति, तस्य प्रशंसां विना राजा न किमपि दत्ते । तदा भद्देन लाञ्छलदे मनिणि आवर्जिता।* ॥२२१॥ तत्प्रेरणया मन्त्रिणा प्रोक्तं-"भव्यानि काव्यानि ।” ततो राज्ञा तुष्टेन प्रत्यहं अष्टोत्तरशत (१०८) दीनारदानं क्रियते स । ततो मत्रिणा व्यक्षयं ज्ञात्वा एकादिपाठसिद्धाः सप्त पुत्रिका अभूवन् । तासां श्रावणात् तासांव
For Private and Personal Use Only