________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चाशीति (८५) वर्षाणि पालयित्वा श्रीशय्यम्भवं स्वस्थ पट्टे स्थापयित्वा वर्ग जगाम ॥ इति प्रभवखामिसम्बन्धः॥३॥ अथ प्रभवस्वामिना श्रीशव्यम्भवः सूरिपदे स्थापितः, पश्चात् सगर्भा शय्यम्भवेन भार्या मुक्ताऽभूत्, तया पुत्रो जनितः, तस्य "मनक" इति नाम जातं । स लेखकशालायां पठन् कलिकरणे छुप्तिकरैः नि:पितृक इति प्रोक्तं । ततो दुःवं कृत्वा मातृपाचे आगत्य पितृनाम पृष्टं, तया प्रोक्तं-"शय्यम्भवः।" तेनोक्तं-"कुत्रास्ति ?” मात्रा दीक्षास्वरूपं प्रोक्तं । ततो गतः तत्र नगरे गुरोः बहिर्गतस्य एकान्ते मिलितो मनका, पृष्टं मनकेन- अब शय्यम्भवसूरिः श्रूयते, स कुत्रास्ति?" गुरुणा प्रोक्तं-"किं प्रयोजनं?" मनकेन स्वकीय स्वरूपं आगमनप्रयोजनं च ज्ञापितं । ततो गुरुः प्रकारान्तरेण आत्मानं ज्ञापयामास, संसारस्य असारतादर्शनेन प्रतिवोधितो, बभाषे-"मम दीक्षां देहि ।” गुरुः वक्ति-"यदि पितृसम्बन्ध साधूनां न ज्ञापयसि, तदा व्रतं ददामि।" मनकेन प्रतिपन्न, ततो दीक्षा दत्ता । गुरुणा स्तोकं आयुः ज्ञात्वा सिद्धान्तात् उद्धृत्य |श्रीदशवकालिक कृत्वा मनकस्य पठनाय दत्तं, पण्मासेन पठितं । ततो मनकः चारित्रं आराध्य वर्ग गतः। श्राद्धा अग्निसंस्कारं कृत्वा गुरुपाचे आगताः, तदा यशोभद्रः पावेऽभूत्, गुरुभिः उपदेशो दत्तः । तदा गुरोः नेत्रयोः अश्रूणि पेतुः । ततो यशोभद्रेण सङ्घन च प्रोक्तं-“हे पूज्याः। युष्माकं अनेके साधवः परलोकं गच्छन्ति, परं कदापि अश्रुपातो न दृष्टः, सांप्रतं कथं अश्रुपातः?" गुरुः प्राह-"मोहात् । को मोहः ।" गुरुणा प्रोक्तं-"अयं मनकोऽस्माकं पुत्रो भवति ।" साधुभिः प्रोक्तं-"कथं न ज्ञापितः पुत्रसम्बन्धः।"
XEXORKERS XEXOXOK:
For Private and Personal Use Only