________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०८
॥२१८॥
COPROIN
उत्तमवस्तूनि विच्छेदं गतानि, तथाहि-मनःपर्यायज्ञानं १, परमावधिज्ञानं २, पुलाकलब्धिः ३, आहारकशरीरं जम्बुखामि४, क्षपकश्रेणिः ५, उपशमश्रेणिः ६, जिनकल्पिमार्गः ७, परिहारविशुद्धिचारित्रं, सूक्ष्मसम्परायचारित्रं, प्रभवस्वामियथाख्यातचारित्रं च इति संयमत्रिकं ८, केवलज्ञानं ९, सिद्धिगमनं च १० इति । श्रीजम्बूस्वामिनो अहो सम्बन्धी अधिकं सौभाग्यं! यतोऽयं पतिं प्राप्य अद्यापि शिवश्री अन्यं पतिं न वाञ्छति। पुनः जम्बूसमः कोऽपि ईदृशः कोहपालो न भूतो न भविष्यति, यः चौरानपि मोक्षमार्गवाहकान् साधून् अकरोत् । पुनः जम्बूकुमारोऽपि वणिगजातित्वात् महालोभी यतो मुक्तिनगरे प्रविश्य अनन्तसौख्यं प्राप्य अन्यागमनिरोधाय मुक्तो कपाट दत्तवान् ।" इति श्रीजम्बूखामिसम्बन्धः॥२॥ श्रीजम्बूस्वामिना श्रीप्रभवः सूरिपदे स्थापितः। अथ श्रीप्रभवस्वामिना गच्छमध्ये सङ्घमध्ये च उपयोगो दत्तः। कस्य सूरिपदं दीयते ? गच्छे पट्टयोग्यं साधुं अदृष्ट्वा, परतीर्थे * राजगृहे यज्ञं कुर्वन् शय्यम्भवभहो दृष्टः। ततः श्रीप्रभवसूरिणा साधुदयं शिक्षयित्वा मुक्तं, तेन तत्र गत्वा प्रोक्तं-"अहो ! कष्ट, अहो कष्टं तत्त्वं न ज्ञायते पुनः।" शय्यम्भवभट्टेन श्रुतं । ततः तत्त्वज्ञानपृच्छार्थ गुरुपाचे व गत्वा पृष्टो गुरुः खड्गं उत्पाट्य-"तत्त्वं वद ।” गुरुणा विचारितं-"शिरश्छेदे तत्त्वं वक्तव्यं, न दोषः। भो। यज्ञकीलकस्य अधोभागे श्रीशान्तिनाथप्रतिमा शान्तिकरी वर्तते, तेन शान्तिः जायते ।" इति उत्तवा स्तम्भ- X॥२१ मुत्पाव्य दर्शिता प्रतिमा । ततो जातजैनधर्मरुचिः गुरुपाचे गत्वा धर्म श्रुत्वा दीक्षां जग्राह शय्यम्भवभहः । अथ श्रीप्रभवस्वामी गृहवासे त्रिंशत् (३०) वर्षाणि छद्मस्थावस्थायां च पञ्चपश्चाशत् (५५) वर्षाणि सर्व आयुः
For Private and Personal Use Only