________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुवालसंगिणो चउदसपुविणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाएणं कालगया जाव सवदुक्खप्पहीणा ॥ थेरे इंदभूई थेरे अजसुहम्मे य सिद्धिगए महावीरे पच्छा दुणिवि थेरा परिनिब्रुया, जे इमे 'अज्जत्ताएं' समणा निग्गंथा विहरंति एए णं स असुम्मस्स अणगारस्स आवञ्चिज्जा, अवसेसा गणहरा निरवच्चा बुच्छिन्ना ॥ ४ ॥ व्याख्या- "तेणं कालेणं तेणं समएणं" तस्मिन् काले तस्मिन् समये भ्रमणस्य भगवतो श्रीमहावीरस्य नव गणाः एकादशगणधराश्च अभवन् । “से केण त्ति” "से" शब्दो अथशब्दार्थः । केन अर्थेन ? कारणेन । हे भदन्त ! एवं उच्यते गणा नव, गणधरा एकादश कथं? यतो "जावइआ जस्स गणा तावइआ तस्स गणहरा इति” वचनात्, यस्य तीर्थङ्करस्य यावन्तो गणाः भवन्ति तावन्तः तस्य गणधरा भवन्ति, सर्वजिनानां गणगणधरमानयोः तुल्यत्वेऽपि श्रीवीरस्य एवं कथं ? तत्रोत्तरं आह-अकम्पिताचलभ्रात्रोः एकरूपैव वाचना जाता । एवं मेतार्यप्रभासयोः अपि यत एकवाचनाधारयति [वाचयति ] समुदायो हि गणः इति नवगणाः । श्रीमहावीरस्य ज्येष्ठ इन्द्रभूतिनामा अनगारो गौतमगोत्रीयः स पञ्चशतश्रमणान् वाचयति-वाचनां ददाति ९, मध्यमोऽग्निभूतिनामा अनगारो गौतमगोत्रीयः सोऽपि पञ्चशतश्रमणान् वाचयति २, कनिष्ठो लघुः वायुभूतिनामा गौतमगोत्रीयः, सोऽपि पश्चशतश्रमणान् वाचयति । एते त्रयोऽपि भ्रातरः ३, चतुर्थ आर्यव्यक्तनामा
For Private and Personal Use Only