________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यित्वा पानीयं धान्यं च मध्ये प्रक्षिप्य, अग्नेः उपरि स्थापयित्वा पाकः कर्तव्यः । तथा कृते पचनारम्भप्रवृत्तिः जाता ॥ इति युगलिनां आहारविधिः ॥
अत्र लिपिः भगवता ब्राह्म्या दक्षिणहस्तेन दर्शिता । सा लिपिः अष्टादशधा, तथाहि
हंसलिपि १ भूतलिपि २ यक्षलिपि ३ राक्षसलिपि ४ उड्डीलिपि ५ यावनीलिपि ६ तुरकी लिपि ७ कीरीलिपि ८ द्राविडीलिपि ९ सैन्धवीलिपि १० मालवीलिपि ११ नाडीलिपि १२ नागरीलिपि १३ लाटीलिपि १४ पारसी लिपि १५ अनिमित्तिलिपि १६ चाणक्कीलिपि १७ मूलदेवीलिपि १८ इति । अथवा देशादिविशेषाद्अन्यथापि - लाटी १ चोटी २ डाहली ३ कान्हडी ४ गुजरी ५ सोरठी ६ मरहटी ७ कोंकणी ८ खुरासाणी ९ ससी १० सिंहली ११ हाडी १२ कीरी १३ हमीरी १४ परतीरी १५ मागधी १६ मालवी १७ महायोधी १८ इति ।
तथा गणितं भगवता सुन्दर्या वामहस्तेन दर्शितं । पुनः भरतस्य रूपकर्म दर्शितं । पुनः बाहुबलेः पुरुषादिलक्षणानि दर्शितानि ।
तन्त्र नन्दिसूत्रे उक्ताः ७२ पुरुषकलाः इमाः- लेखन १ पठन २ गणन ३ गीत ४ नृत्य ५ ताल ६ पटह ७ मरुज ८ वीणा ९ वंश १० भेरी ११ एतेषां वादनकला, हस्ति १२ तुरगशिक्षा १३ धातुर्वाद १४ हग्वाद १५ मन्त्रवाद १६ बली - पलितविनाश १७ रनलक्षण १८ नारीलक्षण १९ नरलक्षण २० छन्दोबन्ध २१ तर्कवाद
For Private and Personal Use Only