________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र वधूकर्तव्यानि विवाहयोग्यानि सर्वाणि देवीभिः सह इन्द्राणी अकरोत् । अथ वरकर्तव्यानि देवैः सह इन्द्रः अकरोत् । ततो विवाहविधिः प्रकटीबभूव । स विधिः विवाहतो ज्ञेय:, न मया लिख्यते, सिद्धत्वात् । अथ भगवतो विषयसुखं भुञ्जानस्य षट्पूर्वलक्षाणि अतिक्रान्तानि । तदा बाहुजीवों भरतः, पीठजीवो ब्राह्मी इति सुमङ्गलायाः मिथुनकं जातं । एवं सुबाहुजीवो बाहुबली, महापीठजीवः सुन्दरी इति मिथुनकं सुनन्दाया जातं । एवं पुनरपि सुमंगलाया एकोनपञ्चाशत् ४९ युगलानि पुत्ररूपाणि जातानि । एवं भगवतः पुत्राणां शतं पुत्रीद्वयं च जातम् ।
अथ श्रीभगवतो राज्यस्थापनां प्राह-तस्मिन् समये कषायबाहुल्यात् जीवानां हकार-मकार- धिक्कारदण्डनीति त्रयमपि अतिक्रान्तं, न कोऽपि दण्डनीतिं मन्यते । तत्तो युगलि कै. श्री ऋषभदेवसमीपे आगत्य विज्ञप्तं"हे स्वामिन्! न्यायं कुरु ।" ततो भगवान् आह - "नाहं राजा, राजा श्रीनाभिः ।" ततः ते गता नाभिसमीपं । नाभिः प्राह - " भवतां राजा ऋषभो भवतु, स न्यायं करिष्यति ।" अत्रान्तरे इन्द्रस्य आसनं कम्पितं, अवधिज्ञानेन राज्याभिषेकसमयं ज्ञात्वा इन्द्र आगत्य सिंहासने निवेश्य, मुकुट-हार-कुण्डलाद्याभरणानि परिधाप्य राज्याभिषेकं भगवतः कृतवान् । यौगलिका इन्द्राऽदेशात् पद्मसरोवरे जलानयनार्थं गताः । परं इन्द्राभिषेकानन्तरं समागताः । ततो भगवन्तं सिंहासने उपविष्टं दिव्यवस्त्राभरणादिविभूषितं इन्द्रादिदेवः कल्प० ३४ * परिवृत्तं दृष्ट्वा क्षणं विचार्य उत्पन्नविवेकाः पानीयं भगवतः पादयोरुपरि चिक्षिपुः । तत इन्द्रेण प्रोक्तं-"साधु,
For Private and Personal Use Only