________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
कल्पलता
अथ श्रीभगवतो वंशस्थापनां प्राह- किञ्चिन्यूने वर्षे जाते सति "रिक्तहस्तः कथं खामिसमीपे गमिष्यामि ” इति विचार्य महतीं इक्षुयष्टिं हस्ते गृहीत्वा, इन्द्रो नाभिराजस्य उत्सङ्गे स्थितं श्रीऋषभदेवं नत्वा उपविष्टः । व्या० ७ खामी च तस्यां इक्षुयष्टौ दृष्टिं अक्षिपत् । ततः इन्द्रः प्राह - "हे भगवन् । तव इक्षौ आकुः =अभिलाषः, किं इक्षं भक्षयिष्यसि ?” ततः श्रीभगवान् हस्तं प्रसारयामास तेन हेतुना इन्द्रेण "इक्ष्वाकुः" इति वंशस्थापना ॥ १९८ ॥ कृता । पुनः भगवतः पूर्वजाः अपि काश्यं इक्षुरसं अपिबन्, अथवा काश्यप्यां जातं इति काश्यपं गोत्रं । अथ भगवति बाल्ये व्यतिक्रान्ते जाते सति कश्चित् युगलिकः पुत्रपुत्रीरूपं युगलं तालवृक्षस्य अधो मुक्त्वा, मोहनं गृहं प्रविष्टः, तदा प्रबलवातेन कम्पितात् तालवृक्षात् एकं महत् फलं पपात । तेन पुत्रो मृतः, पुत्रिका स्थिता, तां पुत्रिकां दिव्यरूपां दृष्ट्वा 'एषा ऋषभस्य भार्या भविष्यति' इति विचार्य नाभिराजेन अन्तःपुरे | मुक्ता । एवं सुनन्दा - सुमङ्गलाभ्यां सहितः । तत्र सुनन्दा युगलिनी, सुमङ्गला च स्वस्य भगिनी, खामी ज्ञानत्रयसहितः कान्ति-बुद्धिप्रमुखगुणैः सह वर्धते । अथ एकदा धूलिधूसरमुखं रममाणं श्रीऋषभपुत्रं माता मरुदेवी गृहीत्वा हृदये आश्लिष्य क्षणमेकं आनन्देन मीलितनयना सती इदं प्राह - "हे पुत्र ! त्वं सुधारसभोजी मम स्तन्यपानमपि न करोषि त्वं सदैव सौभाग्यगुणेन देववधूभिः लाल्यसे, मम उत्सङ्गेऽपि न आयासि, २ ॥ १९८ ॥ अहं तव माता केन गुणेन ? तव प्रसादात् अहं इन्द्रादिदेवानां अपि मान्या जाता, परं मम मातुः भवः [वे ] तव न कोऽपि उपकारः ।" अथ इन्द्रेण आगत्य भगवतो विवाहः चक्रे । सुनन्दा - सुमङ्गलाकन्ये परिणायिते ।
For Private and Personal Use Only
आदि
नाथस्य
वंशस्थापना