________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणि स्थितिः वर्तते, ततः पश्चात् चर्य-शरीरं त्यक्त्वा, अत्रैव जम्बूद्वीपे भरतक्षेत्रे इक्ष्वाकुभूमौ नाभिकुलकरस्य मरुदेवीभार्यायाः कुक्षौ गर्भत्वेन उत्पन्नः॥ अथ कुलकराः कदा कथं च उत्पन्नाः, तत्खरूप इदम्तृतीयस्य अरस्य पल्योपमस्य अष्टमे भागे शेषे सति दक्षिण भरतार्धमध्यमखण्डत्रिभागे गङ्गासिन्धुनद्योः मध्ये कुलकराणां उत्पत्तिर्जाता । तथाहि
पश्चिममहाविदेहे द्वौ वणिजौ अमूताम् । तयोः मध्ये एकः सरलः व्यवहारिणः पुत्रः सागरचन्द्रनामा, एकश्च अपरः वक्रो मायावी च, द्वावपि दानरुचिनौ, तेन मायाविना समं सागरचन्द्रस्य परमप्रीतिरस्ति । एकदा |सागरचन्द्रो मित्रेण समं वसन्ते क्रीडायां बने गतोऽभूत् । तदा कापि अपरव्यवहारिणः कुमारी चौरैः गृहीताऽभूत् । सा आभरणलोभेन मार्यमाणा सागरचन्द्रेण मोचिता, तस्मिन् गुणरक्का जाता, प्रस्ताचे परिणीता च, परं कामातुरेण मित्रेण एकान्ते प्रार्धिता । परं तया सः हकयित्वा, फिकः कृतः। ततो वलमानो मित्रेण शोककारणं पृष्टं, तेन मायया खदोषः तस्यै दत्तः । तेन मित्रभार्ययोः दोषं अवगणय्य प्रीतिरेव कृता। काले त्रयो मृताः, दम्पती मृत्वा युगलिको जाती। द्वितीयो यो मायावी अभूत् स हस्ती चतुर्दन्तो जातः। एकदा हस्ती तं युगलिनं दृष्ट्वा, जाति स्मृत्वा स्वस्य स्कन्धे आरोग्य चचाल । ततोऽन्यः युगलिभिः विमलं वाहनं
For Private and Personal Use Only