________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकलां पृथिवीं साधयित्वा खनगर्या समागत्य द्वादशवर्षे राज्याभिषेक कारयित्वा चक्रवर्ती जातः। अन्यदा वज्रसेनतीर्थङ्करः समवस्तः । वज्रनाभी धर्मदेशनां श्रुत्वा, चतुर्भिः भ्रातृभिः सारथिना च सह खपितुः तीर्थकरस्य पावें दीक्षां जग्राह । बज्रनाभो द्वादशाङ्गीघरो जातः । अपरे एकादशाङ्गधरा जाताः। तत्र पाहुनामा साधुः पञ्चशतसाधूनां भक्तपानानि अपूरयत् १ सुवाहुनामा साधुः सर्वसाधूनां विश्रामणां अकरोत् २पीठमहापीठसावू एकान्ते स्वाध्यायं अकुरुतां ३ ततो पाहुं १ सुबाहुँ २ च आचार्या लोकाश्च प्रशंसन्ति । धन्यौ एतौ । वैयावृत्यं सुदुष्करं कुरुतः। ततः पीठमहापीठयोः अप्रीतिः जाता। आवा स्वाध्यायकारको प्रति न कोऽपि प्रशंसति । ततो ज्ञायते 'वल्लभं कर्म न चर्म, ततो वज्रनाभो राजर्षिः विंशतिस्थानानि संसेव्य, तीर्थकरनाम गोत्रं कर्म बद्धवान् १, बाहुनामा साधुः चक्रवर्तिश्रियं २, सुबाहुसाधुः बाहुबलं ३, पीठमहापीठसाधू स्त्रीगोत्रकर्म बद्धवन्तौ ५, इति एकादशो भवः ॥ ११ ॥ ततः ते सर्वेऽपि मृत्वा सर्वार्थसिद्धिं गताः॥ इति द्वादशो भवः ॥ १२ ॥ अथ श्रीआवश्यकचूणों एवं मोक्तमस्ति-श्रीआदीश्वरजीवो वजनाभः सर्वार्थसिद्धिं गतः । ततः पश्चात् पदपूर्वलक्षा व्यतीताः। ततः पश्चात् वाहु १ सुबाहु २ पीठ ३ महापीठ ४ प्रमुखाः सर्वार्थसिद्धिं गताः। नो चेत् कथं मिलति ? । श्रीआदीश्वरस्य षट्पूर्वलक्षा जाताः, ततः पश्चात् पाहु १ सुबाहु २ पीठ ३ महापीठ ४ प्रमुखा जीवा भरतादयः पुत्रा जाता॥
For Private and Personal Use Only