________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनीताः। ततो निर्दोष घृतं शुद्धभावेन दत्तं । तत् पुण्येन सम्यक्त्वं उपार्जितं, ततः मुखेन सर्वेऽपि वसन्तपुरे प्राप्ताः। धनसार्थवाहोऽपि तत्र नगरे क्रयविक्रयं कृत्वा स्वकीये सुप्रतिष्ठितनगरे आगतः । ततः कियन्तं कालं गृहस्थावासं सुखं भुक्तवा, प्रान्ते सम्यक्त्वं वान्त्वा भद्रकपरिणामेन मृतः॥ इति प्रथमो भवः ॥१॥ ततः उत्तरकुरुक्षेत्रे युगलिको जातः ॥ इति द्वितीयो भवः ॥२॥ ततः सौधर्म प्रथमे देवलोके देवो जातः ॥
इति तृतीयो भवः ॥३॥ ततः च्युत्वा पश्चिममहाविदेहक्षेत्रे गन्धलावतीविजय शतबलनामा राजा, चन्द्रX कान्ता भायां राज्ञी, तयोः पुत्रो महाबलनामा राजा जातः। परं अत्यन्तमहाविषयलोलुपो महाभोगपुरन्दरा विनयवत्या राज्यां अन्यावपि नारीषु अत्यन्तरागवान् धर्म न करोति । धर्मवार्तामपि न शृणोति । सर्वदा
गीतगानतानमाननाटकप्रियः तिष्ठति । महामोहनिद्रया कालं गमयति । एकदा नाटके जायमाने राज्ञः| X प्रतिबोधाय स्वयंबुद्धनाना मन्त्रिणा प्रोक्तम्
"सवं विलंविअंगी, सर्व नदं विडंबणा । सवे आभरणाभारा, सब कामा दुहावहा ॥१॥ । सर्व गीतं चिलपितं-विलापसदृशं, सर्व नाटकं विटम्बना, अङ्गोपाङ्गभञ्जनात्, सर्वाणि आभरणानि भारभूतानि, सर्वेऽपि कामा दुःखावहाः।" राज्ञा श्रुत्वा मत्रिणे मोक्तं-"भो मनिन् ! अप्रस्तावे कथं एवं प्रोक्तं ?, कथं रागावसरे विरागः? " ततो मत्रिणा प्रोक्तं-“हे राजन् ! मया प्रस्तावसदृशमेव प्रोक्तं, यतः चारणश्रमणद्वयेन ममाग्रे प्रोक्तं-तव खामिनो महाबलराजस्य मासमेक आयुरस्ति ।" ततो भीतेन राज्ञा प्रोक्तं-"भव्यं जातं, सुप्तोऽह
For Private and Personal Use Only