________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं कल्पलता
व्या० ६
॥ १७१ ॥
युवराज्यं दत्त्वा स्वयं दीक्षां ललौ । शौरिनृपोऽपि समये स्वकीयं मधुराराज्यं लघुभ्रातरि सुधीरे स्थापयित्वा स्वयं कुशावर्तदेशे गत्वा, खनाम्ना शौरिपुरं नाम नगरं अस्थापयत् । अथ शौरिपुरे शौरिनृपो राज्यं करोति, सुवीरो मथुरायां राज्यं करोति । द्वावपि सगीनौ भ्रातरौ । अथ शौरिनृपस्य अन्धकवृष्णिनामा पुत्रो जातः । सुधीरस्य मथुराखामिनो भोजकवृष्णिनामा पुत्रो जातो । भोजकवृष्णिनृपस्य उग्रसेनः पुत्रो यस्य कंसः पुत्रो यस्य च सत्यभामा- राजीमतीप्रमुखाः पुत्र्यः । अथ च शौरिपुरनगरखामिनोऽन्धकवृष्णिनामभूपस्य दश पुत्राः ॐ समुद्रविजय १ अक्षोभ्य २ स्तिमित ३ सागर ४ हिमवन्त ५ अचल ६ धरण ७ पूरण ८ अभिचन्द्र ९ वसुदेवनामानो १० दश पुत्रा जाताः । दशापि दशाह इति कथ्यन्ते । अथ अन्धकवृष्णिनामा राजा स्वकीयं शौरिपुरराज्यं ज्येष्ठपुत्रस्य समुद्रविजयस्य दत्त्वा दीक्षां ललौ । एवं भोजकवृष्णिनामा राजापि स्वस्य पुत्रस्य उग्रसेनस्य मथुराराज्यं दत्त्वा चारित्रं अग्रहीत् । एवं सति मथुरायां नगर्यां उग्रसेनो राजा राज्यं करोति, शौरिपुरनगरे च समुद्रविजयो राजा राज्यं करोति ॥
अथ श्रीनेमिनाथस्य पञ्चकल्याणकानि संक्षेपवाचनया आह
तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी पंचचित्ते हुत्था, तं जहा - चित्ताहिं चुए चइत्ता गम्भं वकते, तत्र उक्खेवो जाव चित्ताहिं परिनिहुए ॥ १७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
श्रीनेमि
नाथस्य
पश्चकल्याकानि
॥ १७१ ॥