________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थेन श्रीभगवता बहवो नगरलोका गच्छन्तो दृष्टाः, पृष्टं-"भो! किं?" इति । ततः कोऽप्याह-"दरिद्रकुले कोऽपि द्विजसुतोऽभूत, लोकः कृपया जीविता, कठ इति नाना प्रसिद्धिं गतः।" अन्यदा व्यवहारिपुत्रान् आभरणालङ्कारभूषितान् दृष्ट्वा, 'ईशा देवा' इति जातिस्मरणं समुत्पन्नं, ततो वैराग्यात् तापसव्रतं ललो। सांप्रत वाणारसीबहिरूद्याने पञ्चामितपः तपति, कन्दमूलादिभोजी महामहाकष्टं करोति । तत् वन्दनार्थ नगरलोका इमे यान्ति । ततः कौतुकात् वाम्यपि गजारूढः तत्र जगाम । दृष्टः कठतापसः पश्चामितपः कुर्वन् । ततो ज्ञानेन काष्ठमध्ये सर्प ज्वलन्तं दृष्ट्वा भगवान् प्राह-"अहो! अज्ञानकष्टं अज्ञानकष्टं, अहो तपस्विन् ! तव मूढता, धर्मस्य तत्त्वं दया, त्वं तु दयां न वेरिस, दया-कष्टयोः अन्तरं महत्, यथा मेरु-सर्षपयोः, समुद्रकूपयोः, सौवर्ण-रूप्यनाणकयोः, राम-रावणयोः, हस्तिगर्दभयोः, सिंह-शृगालयो, काञ्चन-लोहयोः, राजरङ्कयो, राज्ञी-दास्योः, सूर्य-खद्योतयोः, सजन-दुर्जनयोः, कस्तुरी-खलयोः, कपर-लवणयोः, साधु-गृहस्थयो। चा अन्तरं ।” ततः कठतापसेन प्रोक्तं-“कथं जीवदया नास्ति ?, कथं च अज्ञानकष्टं मम ।" ततः श्रीभग- वान् अग्निकुण्डात् एकं काष्ठं निष्कास्य, कुठारेण द्वेधा कारयित्वा, तन्मध्ये ज्वलन्तं सर्प अदर्शयत् । सर्पस्य पञ्चपरमेष्ठिनमस्कारान् श्रावयन् सर्पोऽपि नमस्कारमभावेन श्रीभगवतो दर्शनेन समाधिना मृत्वा धरणेन्द्रो जातः । स्वामी स्वगृहे समागतः। कठतापसस्तु तैः एव लोकैः निन्द्यमानः अज्ञानकष्टतपः कृत्वा भवनवासी मेघकुमारमध्ये मेघमालीनामा देवो जातः।
For Private and Personal Use Only