________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
( अथ षष्ठं व्याख्यानम् ॥
।। अहम् ॥ अथ षष्ठं व्याख्यानं व्याख्यायते ॥ तत्र प्रथमवाचनायां पञ्चपरमेष्ठिनमस्कारः, पुनरपि श्रीमहावीरदेवस्य संक्षेपवाचनया षट्कल्याणकानि च्याख्यातानिश द्वितीयवाचनायां श्रीमहावीरदेवस्य च्यवनकल्याणकं दशाश्चर्यसहितं गर्भापहारकल्याणकं च व्याख्यातम् । तृतीयवाचनायां श्रीमहावीरस्य मात्रा त्रिशला-2 क्षत्रियाण्या ये चतुर्दश खमाः दृष्टाः ते व्याख्याताः । चतुर्थवाचनायर्या श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातम् ४॥ पञ्चमवाचनायां श्रीमहावीरदेवस्य दीक्षा १ ज्ञान २ निर्वाण ३ कल्याणकानि व्याख्यातानि ५॥ । अथ षष्ठवाचनायां पश्चानुपूा श्रीपार्श्वनाथस्य श्रीनेमिनाथस्य च पञ्चकल्याणकानि व्याख्यायन्ते । तत्र अपूर्व श्रीपार्श्वनाथस्य, तत्रापि पूर्व श्रीपार्श्वनाथस्य वश भवाः, तथाहिप्र पोतनपुरं नाम नगरं, तत्र अरविन्दो राजा, तस्य पुरोहितस्य द्वौ पुत्रौ भ्रातरौ, ज्येष्ठ:-कमठः, लघुः-मरुप्रतिः , तत्र कमठः प्रकृत्या शठो दुराचारी, मरुभूतिश्च धार्मिकः। कमठस्य स्त्री वरुणा, मरुभूतेश्च स्त्री
For Private and Personal Use Only