________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीसूरि परंपरा - प्रशस्तिः ॥
नमः श्री वर्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥ १ ॥ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूरिमुद्योतनं वन्दे, वर्धमानं जिनेश्वरम् । जिनचन्द्रं प्रभुं भक्त्या - ऽभयदेवमहं स्तुवे ॥ ३ ॥ श्रीजिनवल्लभ-जिनदत्तसूरि-जिनचन्द्र-जिनपतियतीन्द्राः ! लक्ष्मीर्जिनेश्वरगुरुः कुर्वन्तु मुखानि संघस्य ॥ ४ ॥ वन्दे जिनप्रबोधं, जिनचन्द्रयतीश्वरं च जिनकुशलम् । जिनपद्मसूरि-लब्धी, जिनचन्द्र-जिनोदया जहुः ॥ ५ ॥ जिनराजं जिनभद्र, जिनचन्द्रं जिनसमुद्रसूरिवरम् । सूरिं श्रीजिनहंसं, जिनमाणिक्यं च वन्देऽहम् ॥ ६ ॥ आकार्य गुर्जरदिशो वरलाभपुर्या, श्रीसाहिना गुरुगुणान् निपुणान् निरीक्ष्य | सन्मानिता युगवरावरावदाता, जाता वशीकृतसुरा जिनचन्द्रपूज्याः ॥ ७ ॥ तत्पट्टे जिनसिंहसूरसुगुरुर्जातस्ततो श्रीमतां मान्यः श्रीजिनराजसूरिमुनि पस्तत्पट्टसूर्योपमः । श्रीमच्छ्रीजिनरत्नसूरिगणभृच्छ्रीजैनचन्द्रस्ततः, || पूज्यः श्रीजिन सौख्यसूरिरभवद्विधावतामुत्तमः ॥ ८ ॥ तत्पङ्कौदयशैलभास्कर निभस्तेजखिनामप्रणीः श्रीमच्छ्रीजिनभक्ति सुरिसुगुरुर्जज्ञे गणाधीश्वरः । तत्पादाम्बुजसेविनो युगवराः सद्भूतयोगीश्वरा, जाताः श्रीजिनलाभसूरिगुरवः प्रज्ञागुणानुत्तराः ॥ ९ ॥ संबद्वेदहुताशनाष्टवसुधा संख्ये शुभे चाss श्विने, द्वादश्युत्तरवासरेऽसितगते श्रीमद्दाख्ये पुरे । बैरासं पदमुत्तमं गुणगुरुं श्रीसद्गुरोर्वाक्यतस्ते स्युः श्रीजिनचन्द्रसूरिगुरवः संघस्य कामप्रदाः ॥ १० ॥ श्रीसूरते श्रीजिनचन्द्रसूरिभिः, प्रदत्तपट्टाजितसर्वसूरिभिः । गुणान्विता रञ्जितभूरिसूरयो, जाताश्च ते श्रीजिनहर्षसूरयः ॥ ११ ॥ संबन्नेत्रनिधानसिद्धिवसुधासंख्ये सुमोदये, मार्गे सत्तमसप्तमीगुरुस्रुतौ पक्षे सिते येन वै। श्रीमद्विक्रमपत्तने गुणनिधौ प्राप्तं पदं चोत्तमं जीयाच्छी
For Private and Personal Use Only