________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशसहस्राः (१४०००) उत्कृष्टाः श्रमणानां संपदोऽभवन् । श्रीमहावीरस्य आर्यचन्दनाप्रमुखाः (३६०००) षट्त्रिंशत्सहस्राः आर्याणां संपदोऽभवन् २ ॥ श्रीमहावीरस्य शङ्खशतकादीनां भावकाणां एकं लक्षं एकोनषष्टिसहस्राश्च (१,५९०००) संपदोऽभवन् ३। श्रीमहावीरस्य सुलसा नागभार्या द्वात्रिंशत् पुत्रजननी, रेवती मङ्खलिपुत्रमुक्ततेजोलेश्या जातातिसारस्य श्रीभगवतः तथाविधौषधदानेन आरोग्यकर्त्री, तथाविधसुलसारेवतीप्रमुखाणां श्राविकाणां त्रीणि लक्षाणि अष्टादशसहस्राः (३,१८०००) श्राविकासं० ४। श्रीवीरस्य श्रीणि शतानि (३००) चतुर्दशपूर्वघराणां संपदः । किंविशिष्टानां ? । अजिनानामपि असर्वज्ञानामपि सतां सर्वाक्षरसंनिपाता वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तेषां अतो जिन इव अवितथं सत् भूतार्थ व्याकुर्वाणानां केवलिश्रुतकेवलिनो: प्रज्ञापनायां तुल्यत्वप्रतिपादनात् ५। श्रीमहावीरस्य त्रयोदशशतानि (१३००) अवधिज्ञानिनां संपदः । किंविशिष्टानां ? । अतिशेषा-अतिशया आमर्षैषध्यादयः तान् प्राप्तानां ६॥ श्रीमहावीरस्य सप्तशतानि (७००) केवलज्ञानिनां संपदः । किंविशिष्टानां १ । संभिन्ने सिद्धसेन - दिवाकरमतेन अन्योन्यं मिलिते एकसमयभाविनी, जिनभद्रगणिक्षमाश्रमणमतेन तु सं सम्यक् भिन्ने पृथक् समयभाविनि संपूर्णे वा संभिन्ने वरज्ञानदर्शने घरन्ति ये ते तेषां० ७ श्रीमहावीरस्य सप्त शतानि (७००) वैक्रियलब्धिधराणां संपदः । किंविशिष्टानां १ । अदेवानामपि देववत् ऋद्धिधराणां ८ । श्रीमहावीरस्य पञ्चशतानि (५००) विपुलमतिधराणां संपदः, किंविशिष्टानां ? । विपुला घटोऽनेन चिन्तितः स च सौवर्ण इति द्रव्यतः १, पाटलिपुत्रकीय इति क्षेत्रतः २, शारद
For Private and Personal Use Only