________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
भगवतः ज्ञानकल्याणकं
कल्पसूत्र अन्वयि द्रव्यमपि ज्ञातमेव स्यात् । अत एवाह-'सर्वलोके सर्वलोकवर्तिनां जीवानां आगति-यतः स्थानात् कल्पलताजीचा आगच्छन्ति विवक्षितं स्थानं । गतिं यत्र मृत्वा उत्पद्यन्ते, स्थिति-कायस्थितिं भवस्थिति च च्या०५ च्यवनं देवलोकात् देवानां मनुष्यतिर्यक्षु अवतरणं, उपपातं देवनारकाणां जन्म तेषां जीवानां, तत्कं तदीयं,
मनः चित्तं, मानसिकंचित्तगतं चिन्तारूपापन्नपुङ्गलजातं, यद्यपि मनो-मनोगतयोः नास्ति वास्तवो भेदः,* ॥१४८॥
तथापि व्यवहारनया अनुसरणात् अस्त्येव भेदः । तथा च वक्तारो वदन्ति-"मम इदं मनसि वर्तते" इति । भुक्तं अशनादि, कृतं-चौर्यादि, प्रतिसेवितं मैथुनादि परिषेवितं वा, आविश्कर्म प्रकटीकृतं रहाकर्म प्रच्छन्नकृतं जानाति-पक्ष्यति चेति, 'डमरूकमणिन्यायेन' अत्रापि संवध्यते । “अरहा" प्राग्वत्, अरहस्यभागी-न रहस्य-एकान्तं भजते, जघन्यतोऽपि देवकोटिसेव्यत्वात्, "तं तं कालं ति" तत्र तत्र काले मनोवचनकाययोगे वर्तमानानां सर्वजीवानां सर्वभावान्-गुणपर्यायान् , तन सहभाविनो गुणा ज्ञानादयः, क्रमभाविनः पर्याया हर्षादयः तान , जानन पश्यन् च विहरति-आस्ते ॥ | अथ श्रीभगवतः केवलज्ञाने उत्पन्ने देवैः समवसरणं कृतं, बहवो-जनाः कोटिशो-देवाश्च आगत्य उपविष्टाः । श्रीभगवता धर्मदेशना क्षणं दत्ता, परं न कोऽपि प्रतिवुद्धा, न केनापि प्रत्याख्यानादि अपि कृतम्, आश्चर्यभूतत्वात् । ततः श्रीभगवान् लाभाभावात् , ततो रात्री एव विहृत्य नवस्वर्णकमलेषु पादौ घरन् , अष्टमहाप्रातिहार्य विराजमानो देवकोटिपरिवृतो द्वादशयोजनः मध्यमपापायां महसेनवने अगात् । तत्र नगरे
PRATXXo-Ko-Ko-KOKeXO-Ko-KEKXX
॥१४८॥
For Private and Personal Use Only