________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ५
॥ १४७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचितेन - उपचयेन वर्तते सोपचितं सत्यसंयमतपः सुचरितेन सोपचितं स्फीतं फलं मुक्तिलक्षणं यस्य सः । तथा स चासौं निर्वाणमार्गच - रत्नत्रयलक्षणः तेन आत्मानं भावयतो- वासयतः अनेन आत्मज्ञानमेव मोक्षस्य प्रधानं साधनमिति उक्तं । द्वादशवर्षाणि व्यतीतानि त्रयोदशस्य वर्षस्य पक्षाधिकषण्मासलक्षणे वर्तमानस्य ग्रीष्मकालस्य द्वितीयो मासः, चतुर्थः पक्षः । एतावता वैशाखसुदि दशमीदिवसे प्राचीनगामिन्यां छायायां पौरुष्यां अभिनिवर्तमानायां प्रमाणप्राप्तायां प्रहरत्रये व्यतीते इत्यर्थः । सुव्रतनामदिवसे विजयनाममुहूर्ते, जृम्भिकानाम नगर्यां वहिः ऋजुवालिका नाम नद्यास्तीरे व्यावृत्तचैत्यत्वात् व्यावृत्तचैत्यं तस्य जीर्णोद्यानस्य इत्यर्थः । जीर्णं व्यन्तरायतनस्य विजयावर्तनाम्नो वा चैत्यस्य अदूरसामन्ते-दूरासन्ने उचितप्रदेशे इत्यर्थः । श्यामाकनाम्नो गृहपतेः- कौटुम्बिकस्य "कट्टकरणंसि" क्षेत्रे - धान्योत्पत्तिस्थाने, शालपादपस्याधः गोदोहिकायां- उत्कुटिक निषिद्यायां तयोः लक्षणं- “पुतपाणिसमायोगे, प्राहरुत्कुटिकासनम् । पाणिभ्यां तु भुवस्त्यागे, तत् स्याद्गोदोहिकासनम् ॥ १ ॥” आतपनां कुर्वतः १ षष्टेन तपसा अपानकेन उत्तराफाल्गुनीनक्षत्रे चन्द्रेण सह योगमुपागते, ध्यानान्तरिकायां वर्तमानस्य तत्र ध्यानं चतुर्घा, पृथक-स्ववितर्क सविचारं १ एकत्ववितर्क अविचारं २ सूक्ष्मक्रियमप्रतिपाति ३ उच्छिन्नक्रियं अनिवर्ति ४ एषां आयभेदद्वये ध्याते शेषं भेदद्वयं अप्रतिपन्नस्य केवलज्ञानमुत्पन्नं, केवलज्ञानोत्पत्तौ श्री भगवान् कीदृग जातः १, तत्राह -
For Private and Personal Use Only
भगवतः
ज्ञानकल्याणकं
॥ १४७ ॥