________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*मासदिनेषु प्रक्षेपे कृते मासा १४९ दिन ४५ दिनानां मासकरणे मासमध्ये प्रक्षेपे सर्वमास १५० दिन १५/
मासानां वर्षकरणे वर्षाणि द्वादश १२ मासाश्च षट् ६ दिनानि १५ एतावता द्वादशवर्षाणि १२ त्रयोदशपक्षाश्च १३ श्रीभगवतः छद्मस्थकालः । अत्राह शिष्यः-ननु द्वादशवर्षाणि त्रयोदशपक्षाश्च कथं मिलन्ति ? श्रीभगवता दीक्षा गृहीता मार्गशीर्षवदि दशमीदिने, केवलज्ञानं तु वैशाखसुदि दशमीदिने उत्पन्नं । एवं च || सति एकादशपक्षा एव वर्धन्ते न त्रयोदश, एतावता एको मासो हीयते । अत्रोच्यते-शृणु सावधानीभूय, सार्धद्वादशवर्षेः सार्धे द्वे युगे भवतः। अथ च युगे युगे मासद्वयं वर्धते, एवं सार्धे युगद्वये पञ्चमासा वर्धन्ते । अथ च प्रतिवर्ष षड्दिनानि हीयन्ते, एवं सार्धद्वादशवर्षेः पश्चसप्ततिर्दिनानि हीयन्ते । एतावता सार्धमासदयं हीयते । एकमासस्तु पक्षद्वयसंबन्धी पूर्वोक्तो हीयते, एवं सार्धमासत्रयं हीयते। तत् पञ्चमासेभ्यः पात्यते, इत्थं त्रयोदश पक्षा भवन्ति, परं सार्धमासः पञ्चमासमध्ये वर्धते । तत्राऽयं परमार्थः श्रीआचाराने उपधानश्रुताख्ये नवमे अध्ययने चतुर्थोद्देशके एवं श्रीभगवतस्तपः प्रोक्तं अस्ति, तथाहि-"छट्टेण एगया मुंजे अदुवा अट्टमेण दसमेणं, दुवालसमेण एगया भुंजे” इति । ततः सर्व मिलति । परं श्रीआवश्यकादौन छद्मस्थपर्यायः तपःसंकलनायां केनापि कारणेन आचाराङ्गोक्तषष्ठादितपःसंकलना न कृता, तत्परमार्थ ते एव जानन्ति । एवं सर्वतपसि श्रीभगवतो जघन्यं तपस्तु षष्ठं, न चतुर्थ, सर्वमपि तपो अपानकं सर्वछद्मस्थावस्थामध्ये प्रमादस्तु अन्तर्मुहर्तकालः । तथा भगवतो नन्दनभवसंबन्धि तपोऽप्येवं नन्दननृपेण २४ चतु
मस्तु पक्षद्वय सार्घमास भगवतस्तपः सर्व मिलति कृता, तत्पर
FIXOXXXaxoxoxaxakaxXOX
For Private and Personal Use Only