________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
aur
कल्पसूत्र
कल्पलता
च्या० ५
चन्दनमालया भगवतः पारणा
॥१४४॥
करणं
ताः भीताः नष्ट्वा गताः । ततो जिनधर्म क्रियमाणं घनावहश्रेष्ठिनं आकार्य, चन्दना प्रोचे-"मां त्वं गृहाण", ततो धनावहेन मूल्यं दत्त्वा गेहे आनीता। तस्य भार्या मूला तां दृष्ट्वा दध्यौ-"मम पतिः नवीनां भाया| करिष्यति” ततो द्वेषं वहति । एकदा पादधायने चन्दना वेणी भूमौ कलन्तीं दृष्ट्वा, श्रेष्ठी तां उच्चस्तरां नीतवान् ।। तदा तथाकुर्वन्तं पतिं दृष्ट्रा दध्यो-"मम पतिः 'पुत्री पुत्रीं' (इति) बक्ति, परं रागग्रस्तः पत्नीं करिष्यति,* मा मम सपत्नी भवतु" इति हेतोः कार्यार्थ गते ग्रामे श्रेष्ठिनि, मूलया मस्तकं मुण्डयित्वा, पादयोः निगडं क्षिश्वा, कौरकवस्त्रं परिघाप्य, अपवरकमध्ये कोष्टिकायां क्षिप्ता। चन्दना च तत्रस्था नमस्कारान् गुणयन्ती खकर्म निन्दन्ती तिष्ठति। उपचासत्रयं च जातं । अत्रान्तरे श्रेष्ठिना आगत्य पृष्ठं-"क गता चन्दना ?।" मूला प्रोचे-अहं न जानामि, सा सर्वत्र परिभ्रमति ।" तदा श्रेष्टी परिवारं पप्रच्छ-तदा मूला गृहद्वारं दत्त्वा, कुश्चिका रहसि मुक्तवा, अन्यत्र गता। तदा वृद्धदास्या प्रोक्तं-"यदि चन्दना विलोक्यते तदा अस्मिन् अपवरके विलोकयत। तदा श्रेष्ठी तत्र गत्वा, गृहदारं उत्घाव्य, कोष्टिकामध्यात् बहिः निष्कासितवान् । चन्दना च एकं पादं उदम्बरात् बहिः, एकं पादं मध्ये कृत्वा स्थिताऽस्ति । तदा क्षुधितां दृष्ट्वा, गृहद्वारस्य जटितत्वात् रन्धनगृहे कृल्माषान् दृष्ट्वा, शू क्षिप्त्वा "हे पुत्रि ! पारणं कुरु" इत्युक्त्वा दत्तवान् । स्वयं श्रेष्ठी निगडभञ्जनार्थ लोहकाराकारणाय गतः। अत्रान्तरे गोचरी कुर्वन् [गच्छन्] श्रीभगवान् तत्र आगतः। प्रभुं दृष्ट्वा, चन्दना हर्षिता सती प्रभु प्राह-“हे खामिन् ! शुद्धं आहारं गृहाण, पादौ [पाणौ] प्रसारय,
॥१४४॥
For Private and Personal Use Only