________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
वीरस्य प्रतिबन्धाभाव:
॥१३७॥
खरूपे अग्रीतिमात्रे, अथवा रागः-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधनेऽपि अभिरमते विषयो गर्ध: प्रेम तस्मिन्, द्वेषो-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखेतत्साधने च अप्रीतिः तत्र, कलहे-असत्यवचनराठ्यादौ "अब्भक्खाणे चा" अभ्याख्याने-असदोषाविष्करणे, पैशून्ये-प्रच्छन्नं असदोषाविष्करणे, पुनः परपरिवादेविप्रकीर्ण परदोषवचने, अरतिः मोहनीयोदयाचित्तोद्वेगफला, रतिः-मोहोदयाञ्चित्ताभिरतिः समाहारेअरतिरतिः तत्र, मायामुषे मायामोषे वा-वेषान्तरभाषान्तरकरणेन परवञ्चनं, मायया सह मृषा मायामृषा, मायया वा मोषो मायामोषः तस्मिन् , मिथ्यादर्शनं-मिथ्यात्वं शल्यमिव अनेकदुःखहेतुत्वात् । तत्र एवं अमुना प्रकारेण तस्य भगवतो न भवति प्रतिबन्ध इति प्रकृतं । वर्षासु-प्रावृषि वासो-वर्षावासः तद्बर्ज अष्ट-1 मासान् ग्रैष्महैमन्तिकान् , ग्रामे एकरात्री वासमानतया अस्ति यस्य स एकरात्रिका, एवं नगरे पञ्चरानिकः, वासीचन्दनयोः प्रतीतयोः, अथवा वासीचन्दने इव वासीचन्दने अपकारोपकारयोः समानो निद्वेषरागत्वात् , कल्पो-विकल्पः समाचारो वा यस्य सः। पुनः कीदृशः? । समानि-तुल्यानि उपेक्षीयतया तृणादीनि | मणिलोष्टकांचनानि यस्य सः। पुनः कीदृशः। समसुखदुःखः। पुनः कीदृशः?। इहलोके परलोके च अप्रतियः। पुनः जीविते मरणे च निरवकाङ्कः। पुनः कीदृशः १ । संसारपारगामी । पुनः कीदृशः। कर्मशत्रुनिर्घातनाय अभ्युत्थितः। “एवं च णं विहरई" इति । एवं र्यासमित्यादिगुणयोगेन विहरति आस्ते इति ।।
॥१३७॥
For Private and Personal Use Only