________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जात एकजात एकभूतो रागादिसहायवैकल्यात् । पुनः कीदृशः ? । विहग इव विप्रमुक्तो-मुक्तपरिकरत्वात् अनियतवासाच । पुनः कीदृशः ? । भारण्डपक्षीव अप्रमत्तो निद्राद्यभावात् । भारण्डपक्षिणः किल एक शरीरं पृथगग्रीवं त्रिपादं च स्यात्, तौ च अत्यन्तं अप्रमत्ततयैव निर्वाहं लभेते इति तदुपमानम् इति कल्पावचूरिव्याख्यानम् ॥ भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवाः अन्योन्यफलभक्षिणी जीवद्यरूपा भवन्ति । ते सर्वदा चकितचित्ता भवन्ति इति ज्ञातावृत्तौ पञ्चमाध्ययने एवमेव व्याख्यातम् । पाईवृत्ती-औपपातिकवृत्तौ । च "भारण्डपक्षिणः ख्याताः, त्रिपदा मर्त्य भाषिणः । द्विजिह्वा द्विमुखा एको-दरा भिन्नफलैषिणः ॥१॥” इति तपागच्छीयप्रतिक्रमणवृत्ती । पुनः कीदृशः? । कुञ्जर इव शौण्डीरः कर्मशत्रुसैन्यं प्रति शूरः । पुनः कीदृशः। वृषभ इव जातस्थामा स्वीकृतमहावतभारवहनं प्रति जातबलो-निर्वाहकत्वात् । पुनः कीदृशः ?। सिंह इव दुर्धर्षः परीषहादिमृगैः न अभिभवनीयः। पुनः कीदृशः ? । मेरुरिव अनुकूलप्रतिकूलोपसर्गवातैः अच-12 लितसत्त्वः । पुनः कीदृशः?। सागर इव गम्भीरो हर्षशोकादिकारकसंपर्केऽपि अविकृतचित्तः। पुनः कीदृशः? चन्द्र इच सोमलेश्यः अनुतापहेतुमन:परिणामः। पुनः कीदृशः ?। सूर इव दीप्ततेजाः द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन परेषां क्षोभकत्वाद्वा । पुनः कीदृशः? । जात्यकनकमिव जातं संपन्नं रूपं-स्वरूपं रागादिकुद्रव्यविरहात् यस्य अपगतदोषरूपकुद्रव्यत्वेन उत्पन्नखस्वभाव इत्यर्थः। पुनः कीदृशः। वसुन्धरा इव सर्वान अनुकूलेतरान् शीतोष्णादीन् उपसर्गान् विषहते यः। पुनः कीदृशः ?। सुहतो-घृतादितर्पितः स|
For Private and Personal Use Only