________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
सोमविप्रप्रार्थना
कल्पलता व्या०५
॥१३२॥
पुनरपि
'पुत्ता य सीसा य समं विभत्ता, विसी देवाय य सम विभत्ता।
मुक्वातिरिक्खा य समं विभत्ता, मुआ दरिदा य समं विभत्ता' ॥१॥ पुनः सा प्राह-"रे भाग्यहीन ! श्रीवीरेण वार्षिकदाने दीयमाने सर्वेषां च दारित्र्यदुःखप्रलयं विधीयमाने त्वं च परदेशे कथं गतः। द्राक्षापचनसमये काकस्येव तव चनुपाको जातः । अथवा मेघे वर्षति त्वं नदीतटस्थजवासाचनस्पतितुल्यो जातः । अथवा रात्री दिवा मेधे वर्षति सत्यपि पलाशे पत्रत्रयमेव स्यात् !
रे अनिष्ट ! रे पापिष्ठ ! रे पाण्डुरपृष्ठ !" इत्यादिभिः निष्ठुरवचनैः बहुभिः निर्भय, गलग्राहं तया गृहात् * निष्कासितः। ततः
"आगिइंदालिद पाछइं दालिद दालिदचिहुंए पासे । पिंज्याणी मुंनइ मारणमांड्यउ तिण हुँ आयउनासे ॥१॥" | इति हेतोः अनन्यगतिकत्वात् प्रवजितोऽपि कृपापरत्वाच ध्रुवं दास्यति । किंचिन्मम वीर इति विचार्य प्रतीति निर्धार्य तव समीपं समेतोऽस्मि । ततो श्रीमहावीर ! त्वं मम दारिद्रयं चूरय, मम मनोरथं पूरय । नच ज्ञेयं वार्षिकदानावसरे सर्वैः प्रासम् , त्वया किमपि कथं न प्राप्तम् ? यतः"स्वामिन् ! कनकधाराभिः, त्वयि सर्वत्र वर्षति । अभाग्यछन्त्रसंछन्ने मयि नायान्ति बिन्दवः ॥१॥"
॥१३२॥
For Private and Personal Use Only