________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
AOXo
कल्पसूत्रं कल्पलता व्या०५
॥१२४॥
वाधिज्ञानं अवधिदर्शनं च आसीत् । तेन कारणेन भगवान् तेन अनुत्तरज्ञानदर्शनेन आत्मनो निष्क्रमणकालं वार्षिकदानं दीक्षासमयं "आलोएई” विलोकयति, विलोक्य च किं कृतवान् ?, तत्राह-"आभोइत्ता चिचा हिरण" विलो-12 कयित्वा-त्यत्तवा, हिरण्यादीनां पदानां व्याख्या पूर्ववत् ज्ञेया। "विच्छडइत्ता" विशेषेण त्यक्त्वा, विगोप्य गुप्तं सत् प्रकाशीकृत्य दानातिशयात्, अथवा विगोप्य 'गुपि गोपन-कुत्सनयोः', कुत्सनीयमेतदस्थिरत्वात् इत्युक्त्वा, दानं दीयते इति दान-धनं, दायायदानार्थ आऋच्छन्ति इति 'अचि' प्रत्यये दायाराभ्याचकाः तेभ्यः "परिभाइत्ता" परिभाज्य,-विभागेन दत्त्वा, अथवा दातृभिः स्वपुरुषैः दानं परिभाज्य-दापयित्वा, दायो भागोऽस्ति येषां दायिका गोत्रिकाः तेभ्यो दान-धनं विभागं परिभाज्य-विभागशो दत्त्वा । तत्र भगवता वर्षे यावत् कियत् दानं दत्तम् ?, तत्राह-प्रातः भोजनकालं यावत् । “ज्ञाता-वृत्तिः" अनुसारेण तु प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः । “चत्वारिंशत् वल्लैः एकः सुवर्णः स्यात्” इति श्रीविक्रमादित्यप्रवन्धे, "अष्टौ हाटककोटयः" इति अत्र व्याख्यातत्वात् । एका सुवर्णानां कोटिः अष्टौ च लक्षाः प्रत्यहं दीयन्ते “वरह वरं वरह वरं" इति वरवरिका, त्रिकचतुष्कचत्वरादिषु स्थानेषु घोप्यते, पश्च यत् याचते तत् सर्व इन्द्रादेशात् देवा आनीय पूरयन्ति । वार्षिकदानमानं यथा-त्रीणि शतानि अष्टाविंशतिश्च कोटयः ॥१२४॥ अशीतिर्लक्षाश्च सुवर्णानाम् ।
अथ यदा भगवान् दीक्षायां उद्यतो जातः, तदा नन्दिवर्धनो राजा इन्द्रायाश्च देवाः कीदृशं दीक्षामहो-|
Fer Private and Personal Use Only