________________
Shri Mahavir Jain Aradhana Kendra
*0-01-0
कल्पसूत्रं
कल्पलता
व्या० ५
www.kobatirth.org
॥ १२३ ॥
व्याख्या- “पुणरवि लोगंतिएहिं त्ति" पुनरपि - इति विशेषद्योतने, एकं तावत् स्वयमेव समाप्तप्रतिज्ञः, विशेषतश्च लोकान्तिकदेवैः बोधित इति गम्यं, तृतीयाया अन्यथा अनुपपत्तेः । लोकान्ते भवाः लौकान्तिकाः ब्रह्मलोकवासिनः सारखताद्या एकान्तसम्यग्दृष्टयः, स्थानाङ्गवृत्तौ लोकान्ते वा उदयिक भावलोकावसाने भवा अनन्तरभवे मुक्तिगमनात् इत्युक्तत्वात् एकावतारिणः । क्वचित्तु संग्रहण्यवचूर्णौ तु एते च नियमेन अष्टमे भवे * सिद्ध्यन्ति इत्युक्तम् । न च भगवान् तेषां उपदेशमपेक्षते, स्वयंवृद्धत्वात् । जीत अवश्यमाचरणीयं कल्पितं= कृतं यैस्ते, जीतकल्पिताः, जीतेन वा अवश्यंभावेन कल्प- इति कर्तव्यता जीतकल्पः सः एषां अस्तीति जीतकल्पिकाः तैः, विभक्तिव्यत्ययात् ते लोकांतिकाः देवाः ताभिः इष्टादिभिः पूर्वं व्याख्यातार्थाभिः वाग्भिः = वाणीभिः गंभीराभिः = महाध्वनिभिः अपुनरुक्ताभिः । कापि - “मिअ १ महुर २ गंभीर ३ गाहिआहिं" इति पाठः, तत्र दुरवधार्यमप्यर्थं श्रोतॄन् ग्राहयन्ति याः ताः ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयः । अनवरतं भगवन्तं अभिनन्दयन्तः, समृद्धिमन्तं आचक्षाणाः, अभिष्टुवन्तच गुणौ कीर्तनं कुर्वन्त, एवं अवादिषुः = व्यजिज्ञपयन्- "हे भगवन् ! त्वं जय जय ! जयं लभख, संभ्रमे द्वित्वम् । “नंदत्ति" नन्दति-समृद्धो भवति इति 'नंद आमन्त्रणे' दीर्घत्वं प्राकृतत्वात् । अथवा जय त्वं जगन्नन्द-भुवनसमृद्धिकारक ! एवं "जय जय ! भद्दा " नवरं भद्रः = कल्याणवान् कल्याणकारी वा, भद्रं ते भवतु ! इति विशेषः । हे क्षत्रियवर वृषभ ! क्षत्रियाणां मध्ये अत्यन्तश्रेष्ठ, हे भगवन् ! त्वं बुद्ध्यख ! भो लोकनाथ ! धर्मतीर्थ धर्मप्रधानं तीर्थं प्रवचनं प्रवर्तय ।। किंविशिष्टं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
लोकान्ति
कागमः
॥ १२३ ॥