________________
Shri Mahavir Jain Aradhana Kendra
कल्प० २१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृच्छति स्म । भगवांश्च तेषां उत्तराणि दत्तवान्, उपाध्यायश्च भगवता कथ्यमानानि उत्तराणि शृण्वन् एवं अचिन्तयत्-"अहो ! एते व्याकरणसन्देहा मम बाल्यावस्थात आरभ्य अभूवन् परं न केनापि पण्डितेन भग्नाः, अनेन वालेनापि भग्नाः । अहो ! एतस्य बालस्य ज्ञानम् । ।" इति आश्चर्ये क्रियमाणे इन्द्र उपाध्यायपण्डितं प्राह- “भो ! एनं बालमात्रं त्वं मा जानीहि । अयं त्रिभुवनखामी ज्ञानत्रयसहितः सर्वज्ञप्रायो महावीरदेवः । इन्द्रेण दशधा सूत्राणि पृष्ठानि - संज्ञासूत्रं १, परिभाषासूत्रं २, विधिसूत्रं ३, नियमसूत्रं ४, प्रतिषेधसूत्रं ५, अधिकारसूत्रं ६, अतिदेशसूत्रं ७, अनुवादसूत्रं ८, विभाषासूत्रं ९, निपातसूत्रं १० । भगवता च एतेषां दशानां व्याकरणसूत्राणां प्रत्युत्तराणि दत्तानि । तदा तत्र स्थाने "जैनेन्द्रव्याकरणं" जातं । ततः | उपाध्यायविप्रेणापि भगवान् श्रीमहावीरदेवो गुरुः कृतः । ततो विप्रस्य बहुदानादिना सन्तोषं कृत्वा, श्रीभगवान् तयैव विच्छित्त्या खगृहे गतः । इन्द्रोऽपि भगवन्तं प्रणम्य स्वस्थानं गतः ॥ इति लेखशालाकरणम् ॥
अथ प्रभोः विवाहकरणम् ॥ अथ यदा भगवान् यौवनावस्थां प्राप्तः भोगसमर्थो जातः, तदा प्रसेनजित् सामन्त भूपस्य पुत्रीं यशोदां मातापितृभ्यां परिणायितः । तया सह सुखं अनुभवतो भगवतः प्रियदर्शनानाम्नी पुत्री जाता । सा निजभागिनेयस्य जमालेः परिणायिता । भगवतश्च अष्टाविंशतिवर्षाणि जातानि तदवसरे मातापितरौ देवलोकं गतौ, आवश्यकाभिप्रायेण चतुर्थ देवलोकं । श्रीआचाराङ्गाभिप्रायेण श्रीपार्श्वनाथस्य श्रावकत्वात् अच्युतं द्वादशं देवलोकं गतौ इति ॥
For Private and Personal Use Only