________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तीर्य तं लकुटं गृह्णाति, तदा तद्ग्राहको जितः । प्राक्तनः पुनः हारितः, जेता च हारितपृष्ठे [छौ] चटित्वा । सङ्केतितं स्थानं याति । एतस्यां क्रीडायां जायमानायां सत्या, इन्द्रेण सभामध्ये प्रोक्तम्-"भो देवाः! अद्य श्रीमहावीरस्य बालत्वेऽपि याहक निर्भीकत्वं अनन्तबलवत्त्वं च वर्तते, तादृक् कुत्रापि नास्ति ।" ततः एको देवः तद्वचनं अश्रद्दधानो बालरूपं विधाय क्रीडनवृक्षं महाभुजङ्गमेन युढे अवेष्टयत्, तं च महाभयंकरं फूत्कुर्वन्तं
सर्प दृष्ट्वा सर्वेऽपि याला नष्टाः। श्रीमहावीरेण निर्भीकेन गृहीत्वा रज्जुबत् दूरे उल्लालयित्वा निक्षिप्तः । पुनः * सुरश्चिन्तयति-"इत्थं जिनो न भीतः, अन्यथा भापयिष्यामि।" अत्रान्तरे श्रीबीरः तिंदूसकक्रीडां करोति । तत्र
सोऽपि सुरो बालरूपं कृत्वा कुमारैः समं क्रीडति । सुरबालो हारितो रममाणः। ततस्तं वाहनीकृत्य चचाल पृष्ठोपरि चटितो भगवान् । ततः स सुरवालो वेतालरूपं कृत्वा, सप्ततालदेहमानः सन् भगवद्भापनार्थ वर्धितुं प्रवृत्तः। ततो भगवता ज्ञानेन तत्वरूपं ज्ञात्वा वज्रमयमुष्टिपहारो दत्तः। ततो मायी देवः आरार्टि [मुक्त्वा] कृत्वा, शशकवत् शरीरं संकुच्य पतितः। ततो भगवद्वलादिगुणरञ्जितः चलत्कुण्डलाभरणो भूत्वा भगवन्तं प्रणम्य, करकमलयुगलं संयुज्य एवं अस्तावीत्-“हे स्वामिन् ! याशस्त्वं सभामध्ये इन्द्रेण वर्णितः ततोऽप्य|धिकतरः प्रत्यक्षं दृष्टः, वारं वारं निजापराधं क्षामयामि ।" इति पादौ प्रणम्य देवः स्वस्थानं गतः॥ इति आमलकीक्रीडाकरणम् [रमणम्]॥ ' अथ भगवतो लेखशालाकरणं कथ्यते । तस्य विस्तारस्त्वयम्-शुभदिवसे शुभमुहूर्ते पूर्व मातापितरौ
For Private and Personal Use Only