________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
कल्पसूत्र
दकच्छटादानात, संमार्जितं-कचवरशोधनात्, उपलिप्तं-गोमयादिना । पुनः शृङ्गाटक-त्रिक-चतुष्क-चत्वर-IXIनगरशाभाकल्पलता चतुर्मुख-महापथ-पथेषु पूर्व व्याख्यातेपु स्थानेषु सिक्तानि जलेन, अत एव शुचीनि-पवित्राणि, संसृष्टानि करणादशः व्या०५ कचवरापनयनेन समीकृतानि वा, रथ्यान्तराणि-रथ्यामध्यानि, आपणवीथयश्च-हट्टमार्गा यस्मिन् तत् ।
पुनः कीदृशं नगरम् ? । मश्चाः मालकाः प्रेक्षणकद्रसृजनोपवेशनार्थ अतिमश्चास्तेषामप्युपरि ये तैः कलितम् । ॥११॥
पुनः कीदृशं नगरम् । “नाणाविहरागभूसिअझयपडागमंडिअं” नानाविधरागैः कुसुंभादिभिः विभूषिता ये ध्वजाः सिंहगरुडादिरूपकोपेता बृहत्पटरूपाः, पताकाश्च ताभ्य इतराः ताभिर्मण्डितम् । पुनः कीदृशं नगरम् ? | "लाउल्लोइअं" छगणादिना लेपनं, सेटिकादिना कुड्यादौ धवलनं, ताभ्यां महितमिव *पूजितमिव, यद्वा लिप्तं उल्लोचितं उल्लोचयुक्तं महितं च पुष्पप्रकरादिना । पुनः कीदृशं नगरम् ?। “गोसीस-1*
सरसरत्त" गोशीर्षस्य-चन्दनविशेषस्य सरसस्य-प्रत्यग्रस्य रक्तचन्दनस्य-चन्दनविशेषस्यैव, दर्दरस्य-दर्दराभिधानपर्वतजातश्रीखण्डस्य, दत्ता त्यस्ताः पञ्चाङ्गुलयस्तला हस्तका यस्मिन् कुड्यादिषु, दर्दरबहलेन चपेटारूपेण वा दत्तपश्चाङ्गुलितलं इत्येके । अन्ये त्वाहुः दर्दरः चीरावनद्धकुण्डिकामुखं तेन गर्भितेन गोशीदिरसेनेति । पुनः कीदृशं नगरम् ? । “उवचिअचंदणकलर्स” उपचिता-उपनिहिताः गृहान्तः(कोण)चतुष्केषु चन्दनकलशामाङ्गल्यघटाः यत्र तत् । पुनः कीदृशं नगरम् ? । “चंदणघडसुकयतोरणपडिदुवारदेसभागं”| चन्दनघटाः सुकृतास्तोरणानि च प्रतिद्वारं द्वारस्य द्वारस्य देशभागेषु यत्र तत् । कचित् घटस्थाने "घणत्ति"
gXoxoxoxoxo****OX-06
॥१२
For Private and Personal Use Only